________________
23
पातिकम् १] षोडशपदार्थतस्वज्ञानस्योपयोगः
३. संशयादयस्तु पदार्था यथासम्भवं प्रमाणेषु 'प्रमेयेषु' चान्तर्भवन्तोऽपि न्यायप्रवृत्तिहेतुत्वात् पृथगुपदिश्यन्ते। न्यायश्च वेदप्रामाण्यप्रतिष्ठापनपूर्वकत्वेन पुरुषार्थोपयोगित्वमुपयातीति दर्शितम् ॥
तत्र नानुपलब्धेऽथै न निर्णीते प्रवर्तते।
किन्तु संशयिते न्यायः, तदङ्गं तेन संशयः ॥ ३०॥ ४. प्रयोजनमनुद्दिश्य न च न्यायं प्रयुञ्जते। ५.. दृष्टान्तः पुनरेतस्य सम्बन्धग्रहणास्पदम्॥३१॥ ६. सिद्धान्तोऽपि धर्मि प्रापणेनाश्रयासिद्धितामपोद्धरत् न्यायं प्रवर्तयति
ननु संशयपदेन न्यायविषयं सन्दिग्धं धर्मिणमभिदधता आश्रयासिद्धिरपोद्धतैव-सत्यम्-क्वचित्तु विषये संशयमन्तरेणापि न्यायप्रवृत्तिदर्शयिष्यत इति संशयितैकविषयन्याय नियमाभावात् सिद्धान्तोऽपि वक्तव्यः॥ ७. न्यायाभिधानेऽवयवाः परं प्रत्युपयोगिनः। . परार्थमनुमानं च तदाहुायवादिनः ॥ ३२॥
यथासंभवमिति। तत्र संशयस्य बुद्धौ, प्रयोजनस्य फले, दृष्टान्तस्य यथायथमारमादिषु, क्वचित् प्रमाणेष्वपि, सिद्धान्तस्यापि तथैव, अवयवस्य शब्दप्रमाणे, तर्कनिर्णययोः बुद्धौ, वादजल्पवितण्डानां शब्दे, हेत्वाभासानां यथासंभवं, छलजात्यो: शब्दे, निग्रहस्थानानां यथासंभवं चान्तर्भावः। तथा च पदार्थो द्विविधः, प्रमाणं प्रमेयं चेति। अत: इतरेषां पृथक् ग्रहणमयुक्तमित्या. मेपाशयः। सत्यम् ; फलविशेषामिप्रायेण पृथक्कथनमिति समाधानाशय: ॥
तत्रेत्यादि । सर्वथा भगृहीते, निर्णीते चार्थे न्याय: न प्रवर्तते, किन्तु संशयित एवार्थे न्यायः प्रवर्तते। तेन हेतुना संशय: तदङ्ग-न्यायाङ्गम् ।।
सिद्धान्तस्य पृथक् निर्देशमाक्षिपति--नन्विति । क्वचिदिति। श्रोत्रियोऽपि सन् श्रुत्युक्तार्थदााय विचारे प्रवर्तत एव। न हि तस्य श्रुत्युक्तार्थे संशयोऽस्तीति वक्ष्यते ।
न्यायाभिधान इति। न्यायामिधाने प्रसक्त इति यावत् ॥
'प्रमेये-ख.
धर्म-ख.