________________
उद्देशस्त्रविवरणम्
न्यायमजरी षोडशपदार्थतत्त्वज्ञानानिःश्रेयसाधिगमोपपादनम् ] ननु षोडशपदार्थतत्त्वज्ञानस्य कथं निश्रेयसाधिगमहेतुत्वमिति वक्तव्यम्। वेदप्रामाण्यसिद्धयर्थ 'चेदं शास्त्रमिति' तावन्मात्रमेव व्युत्पाद्यतां, किं षोडशपदार्थकन्थाग्रन्थनेन-उच्यते -
१. आत्मापवर्गपर्यन्तद्वादशविधप्रमेयज्ञानं तावत् अन्यशाना नौपयिकमेव साक्षादपवर्गसाधनमिति वक्ष्यामः। तत्वज्ञानान्मिथ्याज्ञाननिरासे सति तन्मूलः संसारो निवर्तत इति प्रमेयं तावदवश्योपादेयम् ॥
२. तस्य तु प्रमेयस्यात्मादेरपवर्गसाधनत्वाधिगम आगमैक निबन्धनः॥
तस्य प्रामाण्यनिर्णीतिरनुमान निबन्धना। आप्तोक्तत्वं च तल्लिङ्गमविनाभावि वक्ष्यते ॥२७॥ प्रतिबन्धग्रहे तस्य प्रत्यक्षमुपयुज्यते।। कोऽन्यस्सन्तरणे हेतुरनवस्थामहोदथेः ॥ २८ ॥ आयुर्वेदादिवाक्येषु दृष्ट्वा प्रत्यक्षतः फलम्।
वचः प्रमाणमाप्तोक्तमिति 'निर्णीयते' यतः ॥ २९ ॥ उपमानं तु क्वचित् कर्मणि सोपयोगं-इत्येवं चतुष्प्रकारमपि प्रमाणं प्रमेयवदुपदेष्टव्यम् ॥
ज्ञानं, नि:श्रेयसस्याधिगमः' इति भाष्योक्तरीत्येति शेषः ॥
आत्मेति। यद्यपि प्रमाणान्येव प्रथम उपादेयानि, अथापि प्रमाणानां प्रमेयसिद्धयर्थमेवोपादेयत्वेन प्रमेयशेषत्वात् प्रथम प्रमेयमेवोपात्तम् ॥
अन्यज्ञानानोपयिकमेव-अद्वारकमेवेति यावत् ॥
तस्य-वेदस्य। अनुमाननिबन्धनेति। प्रामाण्यस्य परतस्त्वादिति शेषः । तल्लिङ्गं-प्रामाण्यलिङ्गम् । अविनाभावि-ग्यातं, प्रामाण्यव्याप्तमित्यर्थः। कोऽन्य इत्यादि। 'परश्शतपरिक्षोदात् परस्तादपि वादिभिः । उपलम्भबले स्थेयम् ' इति ह्यभियुक्ताः। एवं उत्तरोत्तरोपजीव्यत्वेन शब्दानुमानप्रत्यक्षाणामुपादेयत्वेऽपि उपमानफलं किमित्यत्राह-कचिदिति। गवयालम्भादिचोदनार्थानुष्ठान इति ग्रन्थकार एव वक्ष्यति ।
शास्त्रमिति-ख.
तावज्ज्ञाना-क. उदष्टं-क. 'निणीयता-ख.