________________
पाडिकम् १] तत्त्वज्ञानपदविग्रह:
21 तत्त्वज्ञानमित्युच्यते । ज्ञानस्यापि तद्वपं ज्ञानान्तरपरिच्छेद्यमेव भवति । निर्णीत तत्वाश्च प्रमाणादय इति व्यतिरेकनिर्देश एव युक्तः। न चासमासप्रसङ्गमात्रात् अन्यथा वर्णनमुचितम् । ईदृशानां समासानां सामर्थ्यानपायेन बहुशो दृष्टत्वात्-देवदत्तस्य गुरुकुलमिति । उपसर्जनं नोपसर्जनमिति न कारणमेतत् समासे । विग्रहवाक्यसमानार्थतया समासो भवति, सा चेह विद्यत एव । वैय्याकरणा अपि ईशि पदानि समस्यन्त्येव । 'अथ शब्दानुशासनं, केषां शब्दानाम् ? लौकिकानां वैदिकानां च' इति । तस्माद्यथाभाष्यमेव षष्ठीत्रयव्याख्यानमनवद्यम् ॥
यदि न केनापि, ताई विषयोऽपि तथैव भवतु। एवञ्च ज्ञानस्य विषयनैयत्याभावात् तस्य तत्त्वभावः स्वत एवेति तत्त्वविषयकमेव ज्ञानं तत्त्वज्ञानमिति म युक्तमिति शङ्कायामाह-ज्ञानस्यापीति । निराकरिष्यते निर्विषयकं ज्ञानं, परिहरिष्यते चानवस्था उत्तरत्रेति भावः । उपसर्जनमित्यादि । प्रधानमप्रधानं वेत्यर्थः। वैटयारणा अपीत्यादि। लौकिकानां वैदिकानां च शब्दानुशासनमिति खल्वन्वयो वक्तव्यः , अतः सति तात्पर्य नैकदेशान्वयो दोष इत्यर्थः। यदि च केषां शब्दानामित्यत्रैव व्यस्तानुशासनपदान्तराध्याहारेण लौकिकानां वैदिकानामित्यादेः व्यस्ताभ्यां 'शब्दानां' 'अनुशासनं' इति पदाभ्यामन्वयानैष दोषः। उक्तं च तथा भाष्यप्रदीपे कैय्यटेन–'उत्तरपदार्थान्तर्गतस्यापि पूर्वपदार्थस्य बुध्या प्रविभागात् प्रत्यवमर्शः' इति चेत् ; ताहि किं तत्रैवाध्याहारः कर्तुं शक्यत इति विचारयतु भवान्। श्रुतानां शब्दानां गतिरस्मामिरुक्ता । अध्याहारस्तु सर्वत्र सुलभ इति भावः । अत्रेदमवधेयम्प्रमाणादीनां तत्वानां ज्ञानादित्यत्र प्रमाणादीनां तत्वानामिति न समानाधिकरणे पदे; येन समासानुपपत्तिः स्यात्, परस्परं तयोरनन्वयश्च । किन्तु प्रमाणादिगतं यत् तत्त्वं याथात्म्य, तस्य ज्ञानात इत्यर्थो विवक्षितः । न हि यथा कथञ्चित् प्रमाणादिज्ञानं निःश्रेयसायालम् , किन्तु प्रमाणादिवस्तुयाथात्म्यज्ञानमेव। एवञ्च 'चैत्रस्य गुरुकुलं' 'शरैः शातितपत्रोऽयं' इत्यादाविव एकदेशान्वयो न दोषाय । समासघटकाप्रधानार्थेनाभेदान्वय एव विरुद्धः, 'ऋद्धस्य राजमातङ्गाः' इत्यप्रयोगात् । न तु भेदसम्बन्धेनान्वयोऽपि । अतश्च प्रकृते न कोऽपि दोषः। एवं सामानाधिकरण्यभ्रमव्युदासायैव च भाष्यकारेण 'प्रमाणादीनां तत्त्वस्य इत्येकवचनान्ततत्त्वपदं प्रयुक्तं इति । षष्ठीत्रयेति-प्रमाणीदीनां तत्त्वस्य
तद्रूपं तत्-क.
निर्णेय-ख.