________________
20
. उद्देशसूत्रविवरणम्
न्यायमचरी समास इति राजपुरुषः शोभन इतिवत् समस्यते; उत्तरपदार्थप्रधानत्वात् षष्ठीतत्पुरुषस्य । ज्ञानमेवात्र प्रधान, तत्त्वमुपसर्जनम् ; अतश्च ऋद्धस्य राज्ञः पुरुष इतिवदसमास एव युक्तः॥
ननु ज्ञानमपि प्रमाणादिसापेक्ष भवत्येव, तद्विषयं हि तदिति-- न-तत्त्वपदेनास्य निराकाङ्क्षीकृतत्वात्-, तत्त्वस्य शानमिति । तदि दानी तत्त्वमेव सापेक्षं वर्तते-कस्य तत्त्वमिति । तस्मात्तत्त्वस्योपसर्जनस्य सतः सापेक्षत्वादसमास एव ॥
[अत्र केषाञ्चित्समाधानम्, तद्दषणं च] इत्येवमभिशङ्कमाना. केचन-तत्त्वं च तत् शानं च इति कर्मधारयं व्याचवक्षिरे-तत्पुनरयुक्तम्-ज्ञानस्य स्वतस्तत्वातत्वविभागाभावात् । विषयकृतो हि ज्ञानानां तथाभावोऽतथाभावो वा। तदेतत् तत्त्वविषयज्ञानं भवति, न स्वतस्तत्त्वस्वभावम् ॥
[स्वमतरीत्या समाससमर्थनम् । किं पुनरिदं तत्त्वं नाम ? सतोऽसतो वा वस्तुनः प्रमाणपरिनिश्चितस्वरूपं शब्दप्रवृत्तिनिमित्तं तदित्युच्यते । तस्य भावस्तत्त्वमिति। तच्च ज्ञानेन निश्चीयते । तत् परिच्छिन्द्यत् शानं
प्रधानस्य समासो भवत्येवेति । तत्पुरुषश्चोत्तरपदार्थप्र । अते उत्तरपदार्थभूतपुरुषेऽन्वयतात्पर्येण तथा प्रयोगो युज्यते, न त्वप्रधानभूतपूर्वपदार्थान्वयतात्पर्येणेत्यर्थः। दृष्टान्तं स्वयं प्रदर्य समाधत्ते-राजपुरुष इति । पुरुषपदार्थे शोभनान्वयतात्पर्येण युक्तोऽयं प्रयोगः । राजनि विशेषणान्तरान्वयतात्पर्येण तु न युक्तः। यथा ऋद्धस्य राज्ञः पुरुषः इति बोधतात्पर्येण ऋद्धस्य राजपुरुष इति प्रयोगः इति भावः ॥
तत्त्वमेव। अप्रधानभूतमिति शेषः॥ - तदेतदिति । तस्मात् एतत् तत्त्वज्ञानं तत्त्वविषयज्ञानमेव भवतीति घट्टकुट्यां प्रभातमित्यर्थः ॥ . सत इत्यादि । तथा च भाष्यं, 'किं पुनस्तत्त्वम् ? संतश्च समावः, असतश्चासदाव:' इति । परिच्छिन्द्यत्-विषयीकुर्वत्-निष्कर्षयदिति यावत्। ननु विषयपरिच्छेदकं चेत् ज्ञानं, तज्ज्ञानं केन परिच्छित ? यवन्येन, तीनवस्था।