________________
माह्निकम् १]
सत्वशानपदविग्रहः
[सौत्रसमासकथनम्] तत्र वक्ष्यमाणलक्षणसूत्रनिर्देशानुसारेण कानिचित् 'एकपचनान्तानि, कानिचिबहुवचनान्तानि पदानि विगृहीतव्यानि । प्रमाणावयवहेत्वाभासानां बहुवचनेन विग्रहो दर्शयितव्यः, शेषाणामेकवचनेन; लक्षणसूत्रषु तथा निर्देशात् । एवञ्चो देशलक्षणयोरेकविषयता नितरां दर्शिता भवति। इतरेतरयोगे द्वन्द्वस्समासः। प्रमाणादीनां तत्त्वमिति सम्बन्धमात्रे षष्ठी। तत्त्वस्य ज्ञान, निःश्रेयसस्याधिगम इति कर्मणि पष्ठयो, तत्त्वस्य शायमानत्वेन निःश्रेयसस्य चाधिगम्यमानत्वेन कर्मत्वात्॥
. [सूत्रे समासासम्भवाशङ्का] नन्वेवं व्याख्यायमाने 'तत्त्वपदस्य प्रमाणादिपदसापेक्षत्वेनासमर्थत्वात् असमासः प्राप्नोति। सापेक्षमसमर्थ भवतीत्याहुः । न चेदं प्रधानं सापेक्षम् , येन भवति वै प्रधानस्य सापेक्षस्यापि . कानिचिदिति। प्रमाणप्रमेयेत्यादिसूत्रे विग्रहकाले प्रमाणावयवहेत्वाभासपदानि बहुवचनान्तानि, इतराणि तु एकवचनान्तानि च ग्राह्यानि, उत्तरत्र सूत्रकृता तथा निर्देशात् । सूत्रे कुतस्तथा निर्देश इति चेत्, तत्तत्तदवसरे स्पष्टीभविष्यति । एवं च-लक्षणसूत्रानुगुणवचनमहणेन च । उद्देशलक्षणयोः-उद्देशलक्षणवाक्ययोः । . ननु तत्वज्ञानादिति समासो न सम्भवति । तत्त्वपदस्य प्रमाणादिपदेन साकं सापेक्षत्वेन समासासम्भवात् । 'समर्थ: पदविधिः' इति खलु पाणिनीयं सूत्रम्। तत्र सामर्थ्य नाम निराकांक्षार्थप्रतिपादनक्षमत्वम् । 'तत्त्वज्ञानात्' इति पदं च साकांक्षतत्त्वपदघटितस्वेन न निराकांक्षबोधजननक्षमम् । मतः 'प्रमाण....निग्रहस्थानतत्त्वज्ञानात्' इति 'प्रमाण....निग्रहस्थानानां तत्त्वानां ज्ञानात्' इति वा वक्तव्यम् । न हि राजन्यन्वयतात्पर्येण ऋद्धस्य राजमातङ्गाः इति प्रयोक्तुं युक्तमिति शङ्कते-नन्विति । ननु वृत्तिघटकेऽपि पुरुषेऽन्वयतात्पर्येण राजपुरुषः शोभन इति प्रयोगात् प्रकृतेऽपि तथाऽस्त्विति शङ्कतेन चेदमिति। इदं तस्वपदं सापेक्षमपि प्रधानमिति च न इत्यर्थः । तेन प्रकृते को लाभ इत्यत्राह-येनेति। येन-एवमङ्गीकारेण सापेक्षस्यापि 1 एकवचनान्तानि पदानि विग्रहे ग्रहीतव्यानि-ख. तस्वस्य-कः तस्व-ख.
2*