________________
18. उदेशसूत्रविवरणम्
म्यायमचरी तत्परिच्छेद्य'मात्मादि प्रमेयम् । नानार्थावमर्शः संशयः। हिताहितप्रातिपरिहारौ, तत्साधनं च प्रयोजनम्। हेतोः प्रतिबन्धावधारणं दृष्टान्तः। प्रमाणतोऽभ्युपगम्यमानः सामान्यविशेषवानर्थः सिद्धान्तः । परार्थानुमानवाक्यैकदेशभूताः प्रतिक्षादयोऽवयवाः । .. सन्दिग्धेऽर्थेऽन्यतरपक्षानुकूलकारणदर्शनात् तस्मिन् सम्भा
वनाप्रत्ययस्तर्कः। साधनोपलम्भजन्मा तत्त्वावबोधो निर्णयः। वीतरागकथा वस्तुनिर्णय'फला' वादः। विजिगीषुकथा तु पुरुषशक्तिपरीक्षणफला जल्पः । तद्विशेषो वितण्डा। अहेतवो हेतुवदाभासमानाः हेत्वाभासाः। . अर्थविकल्पैर्वचनविघातः छलम् । हेतुप्रतिबिम्बनप्राय प्रत्यवस्थानं जातिः। सत्यवस्त्वप्रतिभासः विपरीतप्रतिभासश्च निग्रहस्थानम् ॥
तत्परिच्छेद्य-प्रमाणे: परिच्छेद्य-निर्णेयम्। प्रतिबन्धः-व्याप्तिः । यस्मिनधिकरणे हेतोाप्तिर्निश्चीयते स दृष्टान्त इत्यर्थः । सामान्यविशेषवानिति । 'सामान्यविशेषवदर्थाभ्यनुज्ञा सिद्धान्तः' इति वार्तिकमनुसृत्येदमुक्तम् । प्रत्येकमप्यवयवव्यवहारसत्वात्--एकदेशभूता इत्युक्तम् । सर्कफलभूतो निर्णयः। वितरागकथा इति लक्षणत् । वस्तुनिर्णयफल इति प्रयोजनवाक्यम् । न हि जल्पे वस्तुनिर्णयो नियमेन सम्भवति ; प्रामाणिकोऽपि सन् अकस्मादप्रत्यवस्थाने जल्पे निगृह्यते, अत एवोक्तं पुरुषशक्तिपरीक्षणफला इति । विजिगीषुकथा इति विशेष्यवाचकम्। तद्विशेष:-जल्पविशेषः, विजिगीषुकथात्वात् पुरुषशक्तिपरीक्षणफलत्वाच। स्वपक्षस्थापनाहीमा वितण्डेति तु विशेषः ॥
मात्मादि-ख. राग-ख. 'फलो-ख.