________________
10
माहिकम् १]
षोडशपदार्थोद्देश: यश्च श्रोतृप्रवृत्त्यङ्गं तद्वक्तुं युक्तमादितः। न च प्रयोजनशानादन्यदस्ति प्रवर्तकम् ॥ २५॥
अभिधेयकथनमपि तत्साध्यप्रयोजनोपपादनाय श्रोतबुद्धिसमाघानाय च कर्तव्यमेव ॥
अर्थाक्षिप्तस्तु सम्बन्धः फलशास्त्राभिधेयगः । तन्निर्देशेन सिद्धत्वात् न स्वकण्ठेन कथ्यते ॥२६॥
अभिधेयस्य शास्त्रस्य च वाच्यवाचक'भावलक्षण सम्बन्धः, शास्त्रार्थस्य निःश्रेयसस्य च साध्यसाधनभावलक्षणः सम्बन्धः तदाश्रयनिर्देशादेव सिद्धः ॥
. . षोडशपदार्थोद्देशः] अभिधेयास्तु प्रमाणादयो निग्रहस्थानपर्यन्ताः षोडश पदार्थाः प्रथमसूत्रे निर्दिष्टाः; तेषां स्वरूपमुपरिष्टावक्ष्यते ॥
अर्थपरिच्छित्तिसाधनानि प्रत्यक्षादीनि प्रमाणानि। ____ भादिमवाक्यप्रयोजनविचारमुपसंहरति-यच्चेति। श्रोतृप्रवृत्यङ्गं यत् तदेवादितो वक्तुं युक्तं, न च प्रयोजनज्ञानापेक्षयाऽतिरिक्तं किञ्चित् श्रोतृप्रवर्तकं वर्तते; अत: प्रयोजनकथनपरमेव प्रधानत आदिमवाक्यमिति निर्णय इति । नम्वेवमस्तु, अथापि 'अमिवेयप्रयोजने प्रतिपादयितुमादिवाक्यम्' इति कथमित्यत्राह-अभिधेयकथनमपीति। तत्साध्यं-अभिधेयसाध्यं यत् प्रयोजनं तदुपपादनाय। नन्वेवं सम्बन्धोऽपि प्रथमं वक्तव्य एवेत्यत्राहअक्षिप्तस्त्विति । स्वकण्ठेन-स्पष्टोक्त्या। तदाश्रयेति । वादशाविषयेत्यर्थः ॥ . वक्ष्यत इति। परीक्ष्यत इत्यर्थः। तेन प्रमाणादिस्वरूपप्रतिपादनपराणां उत्तरवाक्यानां न विरोधः। अथ वा-उपरिष्टात' इत्यनेनोत्तरवाक्यसन्दर्भ एव विवक्षितः। तथा च प्रमाणादीनां स्वरूपमात्रमिदानी कथ्यते, तस्परीक्षणं च पश्चादिति भावः। अर्थस्वरूपनिष्कर्ष:-अर्थपरिच्छित्तिः ।
भाव:-ख. NYAYAMANJABI