________________
उद्देशसूत्रविवरणम्
न्यायमचरी निष्प्रयोजनमनुपादेयमेव - सदसद्वायसदशन विमर्शवाक्यमिव । तदिह उपादेयताव्यापकप्रयोजनाद्यनुपलम्भादनादरणीयमिति व्याप- . कानुपलब्ध्या 'प्रत्यवतिष्ठमानः परः' प्रयोजना द्यभिधायिना' आदिवाक्येन निवृत्ताशङ्कः क्रियत इति-तैरपि प्रयोजनप्रतिपादनमेवादिवाक्यस्यार्थ इत्युक्तं भवति । तत्प्रतिपादनेनैव व्यापकानुपलब्धिपरिहारादाशङ्का निवारिता भवतीति ।।
[अर्थसंशायकतया प्रवर्तकत्वमादिवाक्यस्येति पक्षान्तरम्] . - यदपि प्रवृत्तिहेतोरर्थसंशयस्य, तोपरनाम्न औचित्यस्य वा : समुत्पादनमादिवाक्येन क्रियत इति केचिदाचक्षते--तदपि प्रयोजनाभिधानद्वारकमेव। प्रयोजन विषयो हि संशयो वा संभावनाप्रत्ययो वा प्रवृत्त्यङ्गभूतस्तेनोत्पादनीय इति तदुत्पत्ती प्रयोजनाभिधानमेवादिवाक्यस्य व्यापारः। संशयस्तु वस्तुवृत्तोपनत एव, पुरुषवचसा द्वैविध्यदर्शनात् । शौचसमाचारसाधुतादिना तु तस्मिन् सम्भावनाप्रत्ययोऽपि लोकस्य भवतीति। तस्मात् प्रयोजनप्रतिपादनार्थमेवादिवाक्यमिति सूक्तम् ॥ व्याप्ती व्यापकस्य प्रयोजनस्याभावे व्याप्यस्योपादेयत्वस्यापि निवृत्तिरावश्यकी, व्यापकाभावे व्याप्याभावादिति ।।
सन्दिग्ध एवार्थे विचारावतारात्, एतच्छास्त्रप्रतिपाद्यार्थः पूर्वमेव निर्णीतश्चेत्प्रवृत्तिनं भवेत् । आद्यवाक्येन अर्थे प्रदर्शिते तेन तदर्थे सन्दिहाना: तनिर्णयाय, शास्त्रे प्रवर्तन्ते इति अर्थसंशय एवादिवाक्य कृत्यमिति मन्यता मतमाह--यदपीति । आदिवाक्यश्रवणसमनन्तरं न संशयनैय्यत्यम् ; तस्य कोटिद्वयोपस्थित्यधीनत्वादित्यत:---तर्केत्यादि। तथा च संशयाभावेऽपि संभावनाप्रत्ययो भवितुमर्हतीति भावः । वस्तुवृत्तोपनत इति । न तु भादिवाक्याधीन इति यावत् । समाचारः-सदाचारः। अपिशब्दस्तस्य संभावनाद्योतक:॥
____1 प्रत्यवतिष्ठमान:-ख.मिधायिना-स. 3 संभावनाप्रियो लोको-क.