________________
15
माद्विकम् १]
भनुबन्धनिरूपणम् बहुवित्तव्ययायासवियोगसुगमेऽध्वनि । प्रवृत्तिरुचिनोदारफले लघुपरिश्रमे ॥ २० ॥ शृण्वन्त एव जानन्ति सन्तः कतिपयैर्दिनैः । किमेतत्सफलं शास्त्रं उत मन्दप्रयोजनम् ॥ २१ ॥ सूक्ष्मेक्षिका तु यद्यत्र क्रियते प्रथमोद्यमे । असौ सकलकर्तव्यविप्रलोपाय कल्पते ॥ २२ ॥ आतॊ हि भिषजं पृष्ट्वा तदुक्तमनुतिष्ठते। तस्मिन् सविचिकित्सस्तु व्याधेराधिक्यमामुयात् ॥ २३ ॥ तेनादिवाक्याद्विक्षाय साभिधेयं प्रयोजनम् । तत्सम्भावनया कार्यः तच्छास्त्रश्रवणादरः ॥ २४ ॥
[उपादेयताज्ञानजनकमादिमवाक्यमिति पक्षः] येरप्यादिवाक्यमित्थं व्याख्यायते किल-'अनन्वितपदार्थक वाक्यमनुपादेयं- दशदाडिमादिवाक्यवत् । अन्वितपदार्थकमपि
बहुवित्तेत्यादि। बहुवित्तव्ययायासरहितत्वात्सुगमे, लघुपरिश्रमे, अथापि उदारफलेऽध्वनि शास्त्राभ्यासे प्रवृत्तिरुचिता। आपातप्रतीत्या प्रवृत्तेरनङ्गीकारे बाधकमाह-सूक्ष्मेक्षिका त्विति । प्रवृत्त्यारम्भकाल एव इदं सफलमेवेति सूक्ष्मविचारणापूर्वकनिर्णयः यदि सर्वत्रापेक्ष्येत तदा जगति किचिदपि कार्य न निवर्तेत। विप्रलोपः-विनाशः। इसमेवार्थ दृष्टान्तेन विशदयति-आ? हीति । भिषजा औषधे उपदिष्टे प्रथममेव व्याधिनिश्शेष विनश्यत्येवेति न सर्वे प्रवर्तन्ते । अपि तु इदमपि भुञ्जाम इत्येव । रोगनिवृत्तौ च प्रामाण्यनिश्चय इत्यनुभवः । वैद्य एव संशयीत चेत् ब्याधिरेव वर्धेत। एवं लोको निर्व्यापारः प्रसज्येत। अतः फलसंभावनयाऽपि प्रवृत्तिरङ्गीकार्यैवेति ।
प्रकारान्तरेण भादिमवाक्यं व्याकुर्वता मतमुपन्यस्य समाधत्तेयैरपीति। व्यापकानुपलब्ध्येति। यदुपादेयं तत् सप्रयोजनमिति