________________
14 उद्देशसूत्रविवरणम्
न्यायमञ्जरी ___ 'वाक्यं तावदनिश्चितप्रामाण्यं कथं प्रयोजननिश्चयाय प्रभवति। संशयाद्वा प्रवृत्ती वेदार्थेऽपि तथैव स्यादिति शास्त्रमनारब्धव्यं स्यात् ॥
युक्तितः प्रयोजनावगमः शास्त्रे सर्वस्मिन्नधीते सति सम्भवति, नेतरथेति तदवगमपूर्विकायां प्रवृत्तौ इतरेतराश्रयः-शास्त्राधिगमात् । प्रयोजनपरिज्ञानं, प्रयोजनपरिज्ञानाच्च 'शास्त्रश्रवणे प्रवृत्तिः--
उच्यते-भादिवाक्यादेव श्रोतुः शास्त्रप्रयोजनपरिक्षानं; अर्थसंशयाञ्च श्रवणे प्रवृत्तिः।
घेदे हासिद्धप्रामाण्ये महाक्लेशेषु कर्मसु ।
नानर्थशङ्कया युक्तं अनुष्ठानप्रवर्तनम् ॥ १९॥ अनिश्चितप्रामाण्यमिति। 'न हि प्रमाणान्तरसंवाददाढर्थमन्तरेण प्रत्यक्षादीन्यपि प्रमाणभावं भजन्ते, किमुत तदधीनवृत्तिरेष शब्दः' इति खलूक्तम् ।
तो भादिवाक्यश्रवणमात्रात् न प्रयोजननिर्णयो भवेदित्यर्थः । वेदार्थेऽपि तथैव स्यादिति । वेदप्रामाण्यनिश्चय एतच्छास्त्राधीन इति. पूर्वमुक्तम् । एतच्छास्त्रे प्रामाण्यसंशयेऽपि यदि कश्चिदधीयीतेम शास्त्रं, तर्हि वेदे प्रामाण्यनिश्चयाभावेपि तदर्थानुष्ठानायैव यतताम्, मध्ये किमनेन संशयग्रहप्रस्तप्रामाण्येन शास्त्रेणेत्याशयः। सर्वस्मिन्नधीत इति । न ह्यादिमवाक्यार्थज्ञानमात्रात् युक्तीनां अवगमः संभवति, किन्तु शास्त्राध्ययनानन्तरमेव युक्तिपरिज्ञानं भवेदिति । वेदे हीति । यद्यपि शास्त्राध्ययनारंभकाले प्रयोजनज्ञानं निर्विचिकित्सं न जातमेव ; अथाप्यापाततः प्रयोजनज्ञाने जाते प्रवृत्ताः पुरुषाः प्रामाण्यं तद्वैपरीत्यं वा स्वयमेव जानन्ति । वेदार्थानुष्ठानस्य तु अतिक्लेशसाध्यत्वात् न केवलमत्यायाससाध्ये तादृशे कर्मणि आपातप्रतीत्या बुद्धिमान् प्रवर्तेत इति तत्र प्रामाण्यनिश्चयः प्रथममावश्यकः । सुकरे तु शास्त्राध्ययने सामान्यत: प्रयोजनपरिज्ञानादपि प्रवृत्तियुक्तैवेति समाधान ग्रन्थाशयः। वेदे प्रामाण्ये असिद्धे सति महाक्लेशमयेषु कर्मसु, निष्प्रयोजनस्वशङ्कायां अनुष्ठाने प्रवृत्तिर्न युक्तेत्यर्थः। महाक्लेशेष्विति बहुव्रीहिः ॥
1 वाक्याव-क. शास्त्राधिगमे-ख.