________________
18
आडिकम् १]
भनुबन्धनिरूपणम् [शाबारम्भे गमिधेयप्रयोजनकथनमावश्यकम् ] ननु किमर्थोऽयमादिवाक्यारन्भः?
कोऽयं प्रश्नः? शास्त्रं चेदारम्भणीय क्रमवृत्तित्वाद्वाचः प्रथममवश्यं किमपि वाक्यं प्रयोक्तव्यम्। न ह्यादिवाक्यमकृत्वा द्वितीयादिवाक्यप्रणयनमुपपद्यत इति ग्रन्थकरणमेवाघटमानं स्यात् ॥
. आह-न खल्वेवं न जाने ! किन्तु यदेव शास्त्रे व्युत्पाद्यत्वेन स्थितं तदेव व्युत्पाद्यताम् । किमादौ तदभिधेयप्रयोजनकीर्तनेन? उच्यते--आदिवाक्यं प्रयोक्तव्यमभिधेयप्रयोजने।
प्रतिपादयितुं श्रोतृप्रवाहोत्साहसिद्धये ॥ १७ ॥ अभिधेयफलज्ञानविरहास्तमितोद्यमाः।
श्रोतुमल्पमपि ग्रन्थ माद्रियेरन्' न सूरयः ॥ १८ ॥ को हि नाम विद्वान् अविदितविषये निष्प्रयोजने च कर्मणि प्रवर्तेत । आह च भट्टः-(श्लो. वा. 1-1-12). . 'सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् ।
यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यते ' इति ॥
[प्रयोजनपरिज्ञानसंभवाक्षेपपरिहारौ] ननु प्रयोजन परिज्ञान'मादौ श्रोतृणां कुतस्स्यम? इति चिन्त्यम्-किमस्मादेव वाक्यात् ? उत युक्तितः? .. प्रष्टुराशयमजानन्निव पृच्छति-कोऽयमिति। प्रष्टुराशयं उद्घाटयति
आहेति। प्रमाणशास्त्रं खल्विदमित्युक्तं, तर्हि 'प्रत्यक्षानुमान ....' इति सूत्रेणैव प्रथमतो भाव्यं, कुतोऽत्र नि:श्रेयसादिफलोपदेशस्य प्रसक्तिरित्याक्षेपाशयः। समाधत्ते-उच्यत इति । अभिधेयप्रयोजने प्रतिपादयितुं इत्यन्वयः। विरहात् अस्तमिता उद्यमा येषां ते तथा। उक्तार्थेऽमियुक्तोक्तिं संवादयतिमाहेति । श्लोकवार्तिकारंभ इति शेषः । इदं चोपलक्षणम्-'भमिधेयसम्बन्ध प्रयोजनप्रतिपादनार्थत्वं प्रथमसूत्रस्य' इति तात्पर्यटीकाया भपि ॥
1 माद्रियन्ते-ख.
प्रतिपादन-क.