________________
शास्त्राधिकारिनिरूपणम्
[ न्यायमश्वरी
भवति च चतुष्प्रकारः पुरुषः ; अज्ञः, सन्दिग्धः, विपर्यस्तः, निश्चितमतिश्चेति । तत्र निश्चितमतिरेष मुनिः अमुना शास्त्रेण अक्षस्य ज्ञानमुपजनयति, संशयानस्य संशयमुपहन्ति, 'विपर्यस्यतो' विपर्यासं व्युदस्यतीति तान् प्रति युक्तः शास्त्रारम्भः ॥
कुतः पुनरस्य 'मुनेः' निश्चितमतित्वं जातम् ? उच्यते भवति तावदेष निश्चितमतिः ; स तु तपःप्रभावाद्वा देवताराधनाद्वा 'शास्त्रान्तराभ्यासाद्वा' भवतु । किमनेन ?
तत्रैतत् स्यात्, तत एव शास्त्रान्तरादस्मदादेरपि तत्त्वाधिगमो भविष्यतीति किमक्षपादप्रणीतेन शास्त्रेण ? - परिहृतमेतत् -. सङ्क्षेपविस्तरविवक्षया शास्त्रप्रणयनस्य साफल्यात् । विचित्रचेतसश्च भवन्ति पुरुषा इत्युक्तम् । येषामित एवाज्ञानसंशयविपर्यया विनिवर्तन्ते, तान् प्रत्येतत्प्रणयनं सफल मितीदं प्रणीतवानाचार्यः ||
तत्रेदमादिमं सूत्रम् — प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डा हेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निश्रेयसाधिगमः ॥
11 9-9-9 11
12
3
सूत्रस्य तद्वत्तेर्वा प्रणयनं नेष्यते, किन्तु तद्व्यतिरिक्तान् प्रत्येवेति । भवति चेति । उद्योतकारैरप्युक्तं वार्तिके - 'पुरुषः पुनश्चतुर्धा मिद्यते--प्रतिपन्नोऽप्रतिपद्मः सन्दिग्धो विपर्यस्तश्च' इति ॥
किमनेनेति । किमनेन काकदन्तपरीक्षणेनेत्यर्थः । ननु नेदं काकदन्त परीक्षण अपि तु येनोपायेन स मुनिनिश्चितमतिरासीत्तमेवोपायं वयमप्याश्रयेमहीति किमनेनशास्त्रेण इति प्रश्नाशयं स्फुटयति - तत्रैतत्स्यादिति ।
पेत्यादि । तावत्तत्त्वज्ञानोत्पादनक्षमः तपःप्रभावो देवताराधनं वा न 1. सर्वेषां सुशकं ; तदपेक्षया परकल्पिततडाकोपजीवनन्यायेनैतच्छास्त्राध्ययनमेव वरं, को हि सुमतिः सिद्धमन्नं परित्यज्य मिक्षामटेत् — इत्यप्युपलक्षणम् ॥
1 विपर्यस्तस्य क. 2 ऋषेरपि - क. 3 शास्त्र (न्तराद्वा - क.
4 तस्वावगमो - क.