________________
आह्निकम् १] शास्त्राधिकारिनिरूपणम्
11 तस्मादाप्तोक्तत्वादेव शब्दः प्रमाणीभवति, नान्यथेत्येतश्चास्मिन्नेव शास्त्रे व्युत्पादयिष्य ते॥
' ननु अक्षपादात् पूर्व कुतो वेदप्रामाण्यनिश्चय आसीत् ? अत्यल्पमिदमुच्यते-जैमिनेः पूर्व केन · वेदार्थो व्याख्यातः ? पाणिनेः पूर्व केन पदानि व्युत्पादितानि? पिङ्गलात् पूर्व केन छन्दांसि 'रचितानि' ? आदिसर्गात्प्रभृति वेदवदिमा विद्याः प्रवृत्ताः । संक्षेपविस्तरविवक्षया तु तांस्तान् तत्र तत्र कर्तृनाचक्षते ॥
[शास्त्राधिकारिण: ननु वेदप्रामाण्यं निर्विचारसिद्धमेव साधवो मन्यन्ते-इति किमत्र विचारयत्नेन ? न संशयविपर्यासनिरासार्थत्वात्। यस्य हि वेदप्रामाण्ये संशयाना विपर्यस्ता वा मतिः, तं प्रति शास्त्रारम्भः। न हि विदितवेदार्थ प्रति मीमांसा प्रस्तूयते । तदुक्तम्
'नान्यतो वेदविद्भयश्च सूत्रवृत्तिक्रियेष्यते' इति ॥
नन्वित्यादि। अक्षपादैस्तर्कशास्त्रप्रणयनात्पूर्व परीक्षकाः वेदप्रामाण्यादिकं कथमरक्षन् ? विनवाक्षपादशास्त्रं तैः वेदप्रामाण्यसंरक्षणे सैव रीतिरिदानीमप्यनुस्रियता, किमाक्षपादेन शास्त्रेणेति प्रश्नाशयः । एवं धाष्टर्यात्पृच्छन्तं प्रति प्रतिबन्दिमाह-जैमिनेरित्यादि। ऋजु समाधानमाह -आदिसर्गादित्यादि।
निर्विचारसिद्धमेवेति । ये तु साधवश्शतशश्चालनेऽपि श्रद्धादाात वेदप्रामाण्ये न संशेरते, तान् प्रति तत्प्रामाण्यसाधनप्रयासो व्यर्थ एव । ये च मूर्खाश्शतशो बोधनेऽपि नास्तिक्यात् वेदप्रामाण्ये न श्रद्दधते, तान् प्रत्यपि तस्प्रयासो व्यर्थ एवेत्यधिकारिणोऽभावादनारंमणीय शास्त्रमित्याक्षेपाशयः । सत्यं मुनिरसौ निश्चितार्थेभ्यः नोपदिशति ; किन्तु विपर्यस्तान् शिक्षयति युक्त्या, मज्ञसन्दिहानावुद्धरतीति समाधानाशयः ॥
तदुक्तमिति । श्लोकवार्तिके (1-4-43) मट्टपादैरिति शेषः । वार्तिकस्थायमर्थः। अन्यत:-प्रकारान्तरेण वेदविद्यः-वेदार्थमवगतवझ्यः ।
.... विरचितानि-क.