________________
न्यायमीमांसयोः प्रवृत्तिमेद:
न्यायमचरी मीमांसाशास्त्रेण नेदं शास्त्रं चरितार्थम् । ___ ननु वेदप्रामाण्यनिर्णयप्रयोजनश्चेन्नयायविस्तरः कृतमनेन, मीमांसात एव तत्सिद्धेः। तत्र ह्यर्थविचारवत् प्रामाण्यविचारोऽपि कृत एव-सत्यम-स त्वानुषङ्गिकः। तत्र मुख्यस्त्वर्थविचार एव । पृथक् प्रस्थाना हीमा विद्याः। सा च वाक्यार्थविद्या, न 'प्रमाण'विद्येति । न च मीमांसकाः सम्यक् वेदप्रामाण्यरक्षणक्षमां सरणिमवलोकयितुं कुशलाः। कुतर्ककण्टकनिकरनिरुद्धसञ्चारमार्गाभासपरिभ्रान्ताः खलु ते इति वक्ष्यामः। न हि प्रमाणान्तरसंवाददाढ्यमन्तरेण प्रत्यक्षादीन्यपि प्रमाणभावं भजन्ते, किमुत तदधीनवृत्तिरेष शब्दः ? शब्दस्य हि समयोपकृतस्य बोधकत्वमात्रं स्वाधीनं, अर्थतथात्वेतरत्वपरिनिश्चये तु पुरुषमुखप्रेक्षित्वमस्यापरिहार्यम् । कामन्दकोक्तेः। तद्विघ्ननिवारणार्था च दण्डनीतिः। एवञ्चानयोः दृष्टार्थत्वं । स्पष्टम् । विद्यास्थानानि तु सर्वपुरुषार्थसाधनोपदेशीनि इति भावः ॥
आनुषङ्गिक इति। प्रत्यक्षादिप्रमाणैरेव धर्मस्वरूपादिनिर्णयसम्भवे किं वेदार्थविचारेणेतिशङ्कायां तद्वयुदसनाय प्रमाणस्वरूपविचारं संक्षेपतः कृत्वा वेदैकसमधिगम्यो धर्मः इत्येतावन्मात्रं तत्र प्राधान्येन विवक्षितम् , न स्वतिरिक्तमपि। एवञ्च जैमिनिसूत्रेषु प्रमाणस्वरूपादिकथनं एतच्छास्त्रसिद्धार्थानुवादमात्रमिति भावः । वाक्यार्थविद्येति । पदशास्त्रं व्याकरणं, वाक्यशास्त्र मीमांसा, प्रमाणशास्त्र न्याय इति हि प्रामाणिकी प्रसिद्धि रिति भावः। न च मीमांसका इत्यादि। कुतर्ककुशलवेदाप्रामाण्यवादिपुरुषव्याघ्रभीताः खलु मीमांसकमृगाः किंकर्तव्यतामूढाः स्वरक्षणाय द्राविडप्राणायामादिकमारचयन्तीति 'अहो बत इमे श्रोत्रियाः' इत्यादिना तत्र तत्र निरूपयिष्यत इति भावः । किमुतेति। सर्वप्रमाणाग्रणीत्वेन प्रसिद्धमपि प्रत्यक्षं शुक्तिरजतादिज्ञाने अर्थ व्यभिचरत् स्वप्रमाण्ये तर्कमेव सहायमपेक्षते चेत् विप्रलम्भकादिभूयिष्ठे जगति सुलभप्रमादस्य शब्दस्य विषये हि सुतरां तर्कापेक्षा। तच्च शब्दप्रामाण्यं यक्षानुरूपो बलि:' इतिन्यायेन कुतर्कनिराकरणक्षममहातार्किकैकसंरक्ष्यं, न केवलसांप्रदायिकेनेति वेदप्रामाण्यं तर्कशास्ाधीनमेवेति । समयः-सङ्केतः, शक्तिरिति यावत्। अर्थतथात्वेतरत्वे---यथार्थत्वायथार्थत्वे॥
'पुराण-क.