________________
आह्निकम् १]
आन्वीक्षिकीपदव्युत्पत्तिः स्थानमध्ये पाठः। अनुमानकौशलमपि कीदृशं शाक्यानामिति पदे पदे दर्शयिष्यामः॥
- चार्वाकास्तु वराकाः प्रतिक्षेप्तव्या एव; कः क्षुद्रतर्कस्य तदीयस्येह गणनावसरः? ।
वैशेषिकाः पुनरस्मदनुयायिन एवेत्येवमस्यां जनतासु प्रसिद्धायामपि षदतक्यों इदमेव तर्कन्यायविस्तरशब्दाभ्यां शास्त्रमुक्तम् ॥
इयमेवान्वीक्षिकी चतसृणां विद्यानां मध्ये न्यायविद्या गण्यते.. 'आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती' इति ॥
आन्वीक्षिकीशब्दन्युत्पत्तिः प्रत्यक्षागमाभ्यामीक्षितस्य अन्वीक्षण-अन्वीक्षा : अनुमानमित्यर्थः ; तद्वयुत्पादकं शास्त्रं आन्वीक्षिकी ॥
ननु चतस्रश्चेद्विद्याः तत्कथं चतुर्दश दर्शिताः–नैष विरोधः -वार्तादण्डनीत्योईटेकप्रयोजनत्वेन सर्वपुरुषार्थोपदेशिविद्यावर्गे गणनानर्हत्वात् , त्रय्यान्वीक्षिक्योश्च तत्र निर्देशाश्चतुर्दशैव विद्याः ॥
यद्यपि चार्वाका: प्रत्यक्षातिरिक्तं प्रमाण नाभ्युपगच्छन्तीति प्रसिद्धं, तथापि स्वपक्षनिर्धारणाय तैरप्यपरित्याज्य एव तर्कः। अमुमाशयं सूचयति 'पराक' शब्दः। वस्तुतस्तु सुशिक्षितचार्वाका अनुमानमपि प्रमाणमुररीकुर्वन्तीति स्वावसरे प्रकाशयिष्यते ॥
अस्मदनुयायिन इति। तथा च तेऽप्यत्र क्रोडीकृत। एवेति भावः ॥
ननु 'आन्वीक्षिकी यी वार्ता दण्डनीतिश्च शाश्वती। विद्याश्चतस्र एवैताः' इत्यादिवचने आन्वीक्षिक्या एव गणनात् कथं न्यायविस्तरस्य विद्यास्वमिति शायां, तयोः पदयोः पर्यायत्वं सव्युत्पत्तिप्रदर्शनं दर्शयति--इयमेवेत्यादिना। मन्वीक्षिक्यमिन्ना इयं न्यायविद्यैव चतसृणां विद्यानां मध्ये गण्यते इत्यन्वयः ॥ .. कथमिति। चतस्र इति खलु वक्तव्यमित्यर्थः । दृष्टैकप्रयोजनत्वेनेति। बोकस्य जीवनहेतुप्रतिपादिका हि वार्ता, 'वार्ता तु जीवनम्' इति
-
भान्वीक्षकम्-ख. 'कथं-ल.