________________
न्यायपदार्थ:
न्यायमचारी पुरुषार्थसाधनवेदनं ; विद्यायाः स्थानं आश्रयः-उपाय इत्यर्थः । तश्च पुरुषार्थसाधनपरिज्ञानोपायत्वं कस्यचित् साक्षात् , कस्यचि. दुपायद्वारेण । तानीमानि चतुर्दश विद्यास्थानानीत्याचक्षते । यथोक्तम्-(या-स्मृ. 1-3)
'पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश' इति । अन्यत्राप्युक्तम्
'अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश' इति ।। _[गौतमप्रणीतन्यायशास्त्रमेव विद्यास्थानगणपरिगणितम् |
पूर्वत्र तर्कशब्देनोपात्तं उत्तरत्र च न्यायविस्तरशब्देनैतदेव' शास्त्रमुच्यते। न्यायः-तर्कः-अनुमानम्, सोऽस्मिन्नेव शास्त्रे व्युत्पाद्यते ॥
यतः-साङ्ख्याहतानां तावत् क्षपणकानां कीदृशमनुमानोपदेशकौशलं? 'कियदेव तत्तण' वेदप्रामाण्यं 'रक्ष्यत इति 'नासाविह' गणनाहः॥
बादास्तु यद्यपि अनुमानमार्गावगाहन नैपुणोद्धरां 'कन्धरामुद्वहन्ति' ; तथाऽपि वेदविरुद्धत्वात्तत्तर्कस्य कथं वेदादिविद्याज्ञानस्यैव ज्ञानत्वेन, तदतिरिक्तस्याज्ञानत्वेन च वर्णनादित्याशयः। लोकेऽपि हि तत्तदसाधारणकार्यनिर्वाहकस्यैव तत्तद्वस्तुत्वेन निर्देशः। यथा सत्पुत्रः, असत्पुत्र इत्यादाविति भावः। धर्मस्य चेति । धर्मस्य च स्थानानीत्यन्वयः॥
पूर्वत्र-पुराणतर्केत्यादिश्लोके । पूर्वत्र तर्कशब्देनोपात्त एतदेव शास्त्रम् । उत्तरत्र च न्यायविस्तरशब्देनोच्यत इत्यन्वयः ॥
. ननु तर्कावलम्बिषु सांख्याहतबौद्धचार्वाकवैशेषिकनैय्यायिकेषु षट्सु घटतर्कीति प्रसिद्धेषु सत्सु, न्यायशास्त्रमेव पुराणतत्यादौ परिगण्यत इत्यत्र किं विनिगमकम् ? इत्यत्राह-यत इत्यादि। इह-विद्यास्थानेषु ॥
नैपुणोद्धरां कन्धरामित्यादि। स्वस्यैव महातार्किकत्वाभिमानेन उद्धृतग्रीवा गच्छन्तीति हास्योक्तिरियम् ॥
1 कियदिव तकेंण-क. नेहासौ-क. अनुमानावगाहन-क. 'उद्हन्ति-क.