________________
पातिकम् १]
विद्यास्थानपदार्थः 'धर्मे प्रमीयमाणे तु वेदेन कर त्मिना।
इतिकर्तव्यतामागं मीमांसा पूरयिष्यति' इति ॥ । अत एव सप्तममङ्गमिति न गण्यते मीमांसा ; प्रत्यासन्नत्वेन वेदैकदेशभूतत्वात्। विचारसहायो हि शब्दः स्वार्थ 'निराकाक्षं प्रबोधयितुं क्षमः॥
न्यायविस्तर: न्यायविस्तरस्तु मूलस्तम्भभूतः सर्वविद्यानां, वेदप्रामाण्य'रक्षाहेतुत्वात् । वेदेषु हि दुस्तार्किकरचितकुतर्कविप्लावितप्रामाण्येषु • 'शिथिलितास्थाः कथमिव बहुवित्तव्ययायासादिसाध्यं वेदार्थानुष्ठानमाद्रि येरन् साधयः । किं वा स्वामिनि परिम्लाने तदनुयायिना मीमांसादिविद्यास्थानपरिजनेन कृत्यमिति। तस्मादशेषदुष्टतार्किकोपमर्दद्वारकदृढतरवेदप्रामाण्यप्रत्ययाधायिन्यायोपदेश -- क्षममक्षपादोपदिष्टमिदं न्यायविस्तराख्यं शास्त्रं 'शास्त्रप्रतिष्ठान'निबन्धनं इति धुर्य विद्यास्थानम् ॥
[किं नाम विद्यास्थानत्वम् विद्यास्थानत्वं नाम चतुर्दशानां शास्त्राणां-पुरुषार्थसाधनमानोपायत्वमेयोच्यते। "वेदनं -विद्या, तच्च न घटादिवेदनं, अपितु धर्म इत्यादि। धर्मप्रमितौ वेदा: करणम् । करणस्य इतिकर्तव्यताप्रकार मीमांसा बोधयति । उद्यमननिपातनादीतिकर्तव्यतानभिज्ञस्य वास्यादिकरणं न हि फलाय कल्पेत। एवं वेदार्थनिर्णायकत्वादेव तस्या वेदैकदेशत्वमनुपदमुच्यते ॥
वेदप्रामाण्यशैथिल्येन मीमांसादीनां किमागतमित्यत्राह-किं वा स्वामिनीति। स्वामी-अङ्गी वेदः । शास्त्रप्रतिष्ठाननिबन्धनं- स्वेतरसर्वशासजीवनाधारभूतम् । धुर्य-तत्कार्यनिर्वाहात् अग्रयम् ॥
न घटादिवेदनमिति। एतत् ज्ञानमिति प्रोक्तं अज्ञानं यदतोऽन्यथा' (गी.), 'तत् ज्ञानमज्ञानमतोऽन्यदुक्तम्' (वि. पु.) इत्यादौ पुरुषार्थसाधन
'प्रबो-क. हेतुत्वात्-स्व. शिक्षितास्था:-क. प्रतिष्ठान-ख. 'इति पदं-ख. 'यतो वेदनं-क.