________________
चतुर्दशविद्यास्थानाने
[भ्यायमचरी
[पुराणेतिहासौ ... इतिहासपुराणाभ्यामपि 'उपाख्यानादि'वर्णनेन वैदिक एवार्थः 'प्रायः प्रतन्यते । यथोक्तम्-(म. भा. आ. 1-265)
'इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदः 'मामयं प्रतरिष्यति' इति ।
तदेवं वेदपुराणधर्मशास्त्राणां स्वत एव पुरुषार्थसाधनोपदेश- . स्वभावत्वाद्विद्यास्थानत्वम् ॥
.. [अङ्गानि अङ्गानि व्याकरण'कल्पज्योति शिक्षाछन्दोनिरुक्तानि वेदार्थोः . पयोगिपदादिव्युत्पादनद्वारेण विद्या स्थानत्वं प्रतिपद्यन्ते । तेषा मङ्गसमाख्यैव तदनुगामितां प्रकटयति ॥ .
[मीमांसा विचारमन्तरेणाव्यवस्थितवेदवाक्या नवधारणात् मीमांसा वेदवाक्यार्थविचारात्मिका वेदाकरस्येतिकर्तव्यतारूप'मनुभवन्ती' विद्यास्थानतां प्रतिपद्यते। तथा च भट्टः--- . ,
___ इतिहासपुराणाभ्यामिति। उपाख्यानादिवर्णनमुखेन वैदिकार्थप्रतिपादकत्वरूपार्थसामान्यात् 'पुराणतर्कमीमांसा' 'पुराणं धर्मशास्त्रं च' इत्यादौ पुराणपई इतिहासमपि संगृह्णानाति भावः। उपाख्यानवर्णनोपयोगितया इतरवर्णनादीनामपि प्रसक्तत्वात प्राय इत्युक्तम् ॥
. ननु व्याकरणादीनामपि धर्मशास्त्रादीनामिव स्वत एव पुरुषार्थोपदेशित्वं कुतो न स्यादिति शङ्कायामाह-तेषामिति ॥
- अव्यवस्थितेति। 'उदिते जुहोति' 'भनुदिते जुहोति' 'सदेव सौम्येदमग्र आसीत् ' "असद्वा इदमन आसीत्' इत्यादिवाक्यानामित्यर्थः ।
1 उपाध्याय-क. प्रायेण ख. ' ममायं-ख. 'ज्योति-ख. 5 स्थानं-क. स्थितवाक्या-ख. 'मनुबिभ्रतीति-ख.