SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आह्निकम् १] चतुर्दशविद्यास्थानानि विद्यास्थानानि तच 'चतुर्दशविधं, यानि विद्वांसः चतुर्दशविद्यास्थानान्याचक्षते ॥ वेदाः] तत्र वेदाश्चत्वारः। प्रथमोऽथर्ववेदः, द्वितीय ऋग्वेदः, तृतीयो यजुर्वेदः, चतुर्थः सामवेदः। एते चत्वारो वेदाः साक्षादेव पुरुषार्थसाधनोपदेशस्वभावाः, 'अग्निहोत्रं जुहुयात् स्वर्गकामः' 'आत्मा ज्ञातव्यः' इत्यादिश्रुतेः॥ . धर्मशास्त्राणि स्मृति शास्त्रमपि मन्वाद्युपनिबद्ध अष्टकाशिखाकर्मप्रपाप्रवर्तनादिपुरुषार्थसाधनोपदे श्येव दृश्यते । अश्रूयमाणफलानामपि कर्मणां फलवत्ता विधिवृत्तपरीक्षागं वक्ष्यते-सर्वो हि शास्त्रार्थः पुरुषार्थपर्यवसायी न स्वरूपनिष्ठ इति ॥ धर्माधर्मादिकमपि पश्यन्तीति शास्त्रमर्यादा। न तथा वयमयोगिनः शक्कम इत्यस्मदादेः शास्त्रमेव चक्षुरित्यर्थः ॥ . विद्यास्थानानीति। साक्षात् परंपरया वा पुरुषार्थोपकारकाणि विधास्थानानीत्यर्थः । विद्यास्थानपदार्थः ग्रन्थकृताऽनुपदमेव प्रदर्यते ॥ अथर्ववेदस्य प्राथम्यं ग्रन्थकृतैव शब्दपरीक्षायां स्थापयिष्यते । अग्निहोत्रमित्यादि तु अनुमितश्रुतिवाक्यम्, अर्थानुकरणं वा। पूर्वोत्तरकाण्डयो. रविशेषेण प्रामाण्यज्ञापनाय वाक्यद्वयमुपात्तम् ॥ - स्मृतिशास्त्रं-धर्मशास्त्रम् । विधिवृत्तपरीक्षायामिति । पञ्चमालिके विध्यर्थविचारावसरे अश्रृमाणफलानामपि नित्यकर्मणां अन्तत: प्रत्यवायादिपरिहारो वा फलं वर्तत एवेति साधयिष्यते। अतः शास्त्रार्थस्सर्वोऽपि न स्वरूपतः पुरुषार्थः, किन्तु पुरुषार्थपर्यवसाय्येवेति ॥ .. 1 चतुर्विध-क. शास्त्रं-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy