________________
शास्त्राणामवश्याध्येयत्वम्
न्यायमचरी वयं मृदुपरिस्पन्दाः तदारोहणपङ्गवः । न तद्विभूतिप्राग्भारमालोकयितुमप्यलम् ॥ १३ ॥ तदेकदेशलेशे तु कृतोऽयं विवृतिश्रमः। तमेव चानुगृह्णन्तु सन्तः प्रणयवत्सलाः ॥ १४ ॥ असङ्खयैरपि नात्मीयैः अल्पैरपि परस्थितैः। गुणैस्सन्तः प्रहृष्यन्ति चित्रमेषां विचेष्टितम् ॥ १५ ॥ परमार्थभावनाक्रमसमुन्मिषत्पुलकलाञ्छितकपोलम। स्वकृतीः प्रकाशयन्तः पश्यन्ति सतां मुखं धन्याः ॥१६॥
. [शास्त्राणामवश्याध्येयत्वम्] इह प्रेक्षापूर्वकारिणः पुरुषार्थसंपदमभिवाञ्छन्तः तत्साधनाधि: गमोपायमन्तरेण तदवाप्तिममन्यमानाः, तदुपायाव'गम निमित्तमेव प्रथममन्वेषन्ते। दृष्टादृष्टभेदेन च द्विविधः पुरुषार्थस्य पन्थाः। 'तत्र' दृष्ट विषये 'सुचिर प्ररूढवृद्धव्यवहारसिद्धान्वयव्यतिरेकाधिगतसाधनभावे भोजनादावनपेक्षितशास्त्रस्यैव भवति प्रवृत्तिः । न हि 'मलिनः स्नायात्' 'बुभुक्षितो वाऽश्नीयात्' इति शास्त्रमुपयुज्यते । अदृष्टे तु स्वर्गापवर्गमात्रे नैसर्गिकमोहान्धतमसविलुप्तालोकस्य लोकस्य शास्त्रमेव प्रकाशः। तदेव सकलसदुपायदर्शने दिव्यं चक्षुरस्मदादेः, न योगिनामिव योगसमाधिजशानाधुपायान्तरमपीति। तस्मादस्मदादेः शास्त्रमेवाधिगन्तव्यम् ॥ . नालमहम् । अतस्तदेकदेश एव मम सर्वोऽपि परिश्रमो विश्राम्यति इति समुदितार्थः ॥ १४॥ परमार्थत्यादि । परमार्थभावनाक्रमसमुन्मिवत्पुलकलान्छितकपोल सतां मुखं स्वकृती: प्रकाशयन्तो धन्याः पश्यन्ति । ये तु प्रन्थकर्तारः, स्वग्रन्थोक्ततत्त्वार्थपरिशीलनविकसितं सतां निर्मत्सराणां मुखं पश्यन्ति, त एच धन्या इत्याशयः। निमत्सरा विद्वांसस्सुदुर्लभा इति यावत् ॥१६॥
उपयुज्यत इति । स्वविषयप्रवर्तनायेति शेषः । सानभोजनादेः रागप्राप्तत्वादिति हेतुरूह्यः। योगसमाधिजेत्यादि । योगिनो यतीन्द्रिय
1गत-ख. तहिविधिः-ख. ३ तस्य-ख. रुचि-ख. 'ज्ञानाभ्यु-क.