________________
भाविकम् १]
ग्रन्थावतरणम् न्यायौषधिवनेभ्योऽयमाहृतः परमो रसः।। इदमान्वीक्षकीक्षीरात् नवनीतमिवोद्धतम् ॥ ७ ॥ कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः । वचोविन्यासवैचित्र्यमात्र'मत्र' विचार्यताम् । ८ ॥ तैरेव कुसुमैः पूर्वमसकृत्कृतशेखराः। अपूर्वरचने दाम्नि दधत्येव कुतूहलम् ॥ ९ ॥ यद्वा निर्गुणमप्यर्थे अभिनन्दन्ति साधवः । प्रणयिप्रार्थनाभङ्ग संविधानम शिक्षिताः ॥ १० ॥ तदियं वाङ्मयोद्यानलीलाविहरणोद्यतैः । विदग्धेः क्रियतां कर्णे चिराय न्यायमञ्जरी ॥ ११ ॥ अक्षपादप्रणीतो हि विततो न्यायपादपः ।
सान्द्रामृतरसस्यन्दफलसन्दर्भनिर्भरः ॥ १२॥ च ते कीर्तिः त्रैलोक्ये प्रभविष्यति । अक्षयं च कुलं तेऽस्तु महर्षिमिरलकृतम् । भविष्यसि ऋषिश्रेष्ठ सूत्रकर्ता ततस्ततः । इत्येवं शङ्करात् प्राप वरं मुनिवरस्स वै । त्रैलोक्ये विततश्चासीत् पूज्यश्च यदुनन्दन।' इति ॥ ४ ॥ न्यायौषधीत्यादि। पूर्वोत्तरार्धे मिन्नवाक्ये॥७॥ पूर्वश्लोकोक्तमेव समर्थयति-कुतो वेत्यादि ।। ८ ॥ अनपूर्वत्वेऽनुपादेयता स्यादित्यत्राह--तैरेवेत्यादि ॥ ९॥ यद्वेत्यादि । 'साधवः-सुसंस्कृतमनस्काः निर्गुणमप्यर्थमभिनन्दन्ति । अशिक्षितास्तुअसंस्कृतमनसः प्रणयिप्रार्थनाभङ्गसंविधानमेवामिनन्दन्तीत्यर्थः । अथ वा प्रणयिप्रार्थनाभङ्गसंविधानमित्यत्र विषयत्वरूपं कर्मत्वं द्वितीयार्थः। प्रणयिनां प्रार्थनाया भङ्गाचरणविषये अशिक्षिता:-अनभिज्ञा इति साधवो विशेष्यन्ते सामिप्रायम् । यतस्तादृशाः साधव: अतो निर्गुणमप्यभिनन्दन्त्येवेति ॥ ५० ॥ एवं साधूनभिनन्द्य स्वप्रार्थनां कथयति--तदियमित्यादिना ॥ ११ ॥ माक्षपादीयेषु कतिपयसूत्रेष्वेव कुत: पक्षपात: ? प्रतिसूत्रं कुतो न व्याख्याति भवान् ? इत्याशङ्कामपनुदति-अक्षपादेत्यादित्रिभिः श्लोकैः। गभीरं न्यायपादपं पङ्गुरहमारोढुं कथं प्रभवेयम् । तद्वैभवप्राग्भागगतातिशयं द्रष्टुमपि
1 मेतव-क.
संविधानाम-खा.