________________
ग्रन्थावतरणम्
न्यायमचरी नमामि यामिनीनाथलेखाऽलङ्कत कुन्तलाम। भवानी भवसन्तापनिर्वापणसुधीनदीम् ॥२॥ सुरासुर शिरोरत्नमरीचिखचिताये। विनान्धकारसूर्याय गणाधिपतये नमः ॥ ३॥ जयन्ति पुरजिद्दत्तसाधुवादपवित्रिताः । निदानं न्यायरत्नानां अक्षपादमुनेगिरः ॥४॥
[ग्रन्थावतरणम्] अक्षपादमताम्भोधि परिमर्षरसोत्सुकाम। विगाहन्तामिमां सन्तः प्रसरन्तीं सरस्वतीम् ॥ ५ ॥ नानागुणरसास्वादखिन्नाऽपि विदुषां मतिः।
आलोकमात्रकेणेममनुगृह्णातु नःश्रमम ॥ ६ ॥ दुःखापेक्षयैव प्राचुर्यस्य सुखे बोधनात्-उच्यते-प्राचुर्य हि द्विविधं - स्वसमानाधिकरणविजातीयाल्पत्वसापेक्षं, स्वव्यधिकरणसजातीयाल्पत्वसापेक्षं चेति। भायं सुखमयं जीवनमित्यादौ। तत्तु न प्रकृते। द्वितीयं च सूर्यप्रकाशप्राचुर्यतात्पर्यके 'प्रचुरप्रकाशः सविता' इत्यादौ। न हि तत्र सूर्यगताप्रकाशांशापेक्षया सूर्यगतप्रकाशांशप्राचुर्य बोध्यते ; सूर्ये अप्रकाशांशस्यासम्भवात् । किन्तु सूर्यव्यतिरिक्तलौकिकसर्वतेजोगतप्रकाशापेक्षया सूर्यप्रकाशप्राचुर्यमेव । प्रकृतेऽपि जीवगतानन्दाद्यपेक्षया ब्रह्मानन्दस्य प्राचुर्यमेव मयडा बोध्यत इति न दोषः। ननु भोः ! सिद्धान्ते, ब्रह्मण्यानन्दस्याप्यनङ्गीकारात कथमिदम् ? अत्यल्पमेतत् - किं 'आनन्दो ब्रह्म' इत्यादिश्रुतिरेव सैद्धान्तिकैर्न श्रुता ? श्रृंतापि न प्रमाणं वा? युक्त एव तथा व्यपदेशः। निर्वाहस्तु स्वायसरे भविष्यति ॥ १॥ यामिनीनाथेत्यादि । ईश्वरस्यार्धनारीत्वात् , पार्वत्याः भवानीत्वाद्वा तथा वर्णनम्। चन्द्रकलायाः वामभाग एवं सत्त्वेन अर्धनारीमूतौं पार्वत्या वामार्धगतत्वेन वा तथोक्तिः ॥ २ ॥ जयन्तीत्यादि । एतच्छलोकार्थः ग्रन्थकारेणैव प्रन्थान्ते 'न्यायोद्गारगभीरनिर्मलगिरा गौरीपतिस्तोषितो वादे येन' इत्यादिश्लोकेन किञ्चिदिव विवृतः। तथोक्तं शैवपुराणे उमासंहितायां द्वितीयाध्यायेगौतममधिकृत्य--'तुतोष, भगवानाह, ग्रन्थकर्ता भविष्यसि । वत्साक्षय्या
कुण्डलाम्-क.
परिशर्म-क.