________________
श्रीः श्रीमजयन्तभट्टविरचिता न्यायमञ्जरी
न्यायसौरभाख्यटिप्पणीसंयुता
[प्रथममाह्निकम्-प्रमाणसामान्यपरीक्षणम्]
[मङ्गलाचरणम्] • नमः शाश्वतिकानन्दज्ञानेश्वर्यमयात्मने। सङ्कल्पसफलब्रह्म'स्तम्बा'रम्भाय शम्भवे ॥ १॥
विश्वं सृजन् करुणया परिपालयन् यः
विश्वक्रियासु यमयत्य खिलान्तरात्मा। . विद्यास्वयंवरपतिर्विदधातु सोऽयं .. विश्वस्य मङ्गलममेयमहाविभूतिः॥
अनुगृह्णन्तु सद्भावपवित्रितजगत्रयाः ।
माघ्राय मञ्जलं न्यायमञ्जर्याः सौरभं बुधाः ॥ इह खल्वनन्यसाधारणशेमुषीविभवसमाकृष्टसकलसुधीजनहृदयः श्रीमान जयन्तभट्टः प्रारीप्सितप्रबन्धस्य निर्विघ्नपरिसमाप्तिप्रचयगमनायथं स्वेष्टदेवतानमस्काररूपं मङ्गलमारचयति-नम इत्यादि । नात्र विकारार्थे मयट् , ब्रह्मणो निर्विकारस्वात् ; किन्तु प्राचुर्यार्थे । ननु तर्हि ब्रह्मण्यज्ञानादयोऽपि प्रसज्येरन् । सुखप्रचुरजीवनतात्पर्येण प्रयुक्ते हि ‘सुखमयं जीवनम् ' इत्यादी
'स्तम्भा-ख.