________________
वेदे कर्त्रस्मरणमप्यसिद्धम्
[वेदे स्मरणमसिद्धमेव ]
स्मरणमेव त्वप्रयोजकम्, * असिद्धत्वात् । सिद्धमपि वा वेदे कर्त्रस्मरणमन्यथासिद्धम् । वेदकरणकालस्य अतिदवीयस्त्वात्, तत्प्रणेतुश्च पुंसः सकलपुरुषविलक्षणत्वात् नियतशरीरपरिग्रहाभावात् 'इदन्तयाऽस्य' पाणिनिपिङ्गलादिवत् स्मरणं नास्ति न तु स नास्त्येव । अनुमानागमाभ्यां तदवगमात् कथं पक्षधर्मतया ग्रहीतुं शक्यते कर्त्रस्मरणम् ?
• आह्निकम् ४]
f येक पुरुष सम्वन्धि व्यभिचरति । सर्वपुरुष सम्बन्धि तु दुरवगमम् । सर्वे पुमांसः कर्तारं वेदस्य न स्मरन्तीति कथं जानाति भवान् ? न हि तव सकललोकहृदयानि प्रत्यक्षाणि ; सर्वज्ञत्वप्रसङ्गात् । न च यत् त्वं न जानासि तत् अन्योऽपि न जानातीति युक्तम् : \ अतिप्रसङ्गात् । तस्मादस्मर्यमाणकर्तृकत्वं दुर्बोधमेव ॥
583
| वेदे कर्तृस्मरणमन्तरा प्रामाण्यमेव न निश्श्रीयेत ]
अपि च कर्तुरस्मरणे सति सुतरां वेदार्थानुष्ठानं प्रेक्षावतां शिथिलीभवेत् । नाकर्तृक ए-पदेशः संभवति । संभवन्नपि वा प्रामाण्यनिश्चयनिमित्ताभावात् कथं विस्रंभभूमिग्सौ भवेत् । 'बाधकाभावमात्राच्च न प्रामाण्यानश्चयो वचसामित्युक्तं प्राक् (पु. 483 )। तस्मात् प्रत्ययादेव निर्विचिकित्स वेदार्थानुष्ठानं 'सप्रतिष्ठान'
* असिद्धत्वात् - रचनात्वेन सामान्यतः कर्तुरनुमानेन तत्स्मरणसत्वात् । सिद्धमपि - इति तु न हि लोके कोऽपि कमपि वेदकर्तारं निर्दिश्य व्यवहरतीत्यभिप्रायेण । समाधानवाक्येष्वयमर्थ: स्पष्टः । दृश्यते
Mast बहूनि वस्तूनि अज्ञानकर्तृकाणि ॥
+तत् -- कर्त्रस्मरणम् । व्यभिचरति, अन्येन स्मरणसंभवात् ॥
1 दुरवगमत्वस्यैवोपपादनं --- सर्व इत्यादि ॥ [ अतिप्रसङ्गादिति ।
1 इदन्तया-क. 2 तद्धयेत्पुरुष - ख.
एतादृशोऽतिप्रसङ्गः पूर्व ( पु. 26 ) मध्युक्तः ॥
3 सप्रतिष्ठानां ख..