________________
582 वेद पौरुषेयत्वसाधनम्
न्यायमञ्जरी अमृतेनेव संसिक्ताः चन्दनेनेव चर्चिताः । चन्द्रांशुभिरिवोन्मृष्टाः' कालिदासस्य सूक्तयः ॥ २१ ॥
'प्रकट रसानुगुणविकटाक्षररचनाचगत्कारितसकलकविकुलाः बाणस्य वाचः। प्रतिकाव्यं च तानि तानि वैचित्र्याणि दृश्यन्त एव । नामाख्यातादि चियमात्रेण कत्रभावो वेदे रूपादेव प्रतीयत इति नूतनेयं वाशेयुक्तिः ॥
भनित्यवस्तुसंयोगादपि चेदा: न नित्याः ___ अपि च यदि रूपे समाश्वसिति भवतो मनः-तदा आदि. मदर्थाभिधानमपि वेदस्य रूपं कथं न परीक्षसे? 'बबरः प्रावाहणि रकामयत' (तै. सं. ७-१-१०), 'कुसुरबिन्द बहालकिरकामयत' (तै. सं. ७-२-२), 'पुरूरवो मा प्रपतः (ऋ. १०-९५-१५) इति ॥
प्रतिसर्ग वेदानां भिन्नत्वं स्मृत्युक्तम् प्रतिसर्ग पुनस्तेषां * भावात् अनादित्वमिति चेत्, प्रतिसर्ग तहि वेदान्यत्वमपि भविष्यति। यथोक्तम
'प्रति मन्वन्तरं चैषा थुतिरन्याऽभिधीयते' इति । +'रूपाद'कृत्रिमत्त्वे च कल्पना कल्पिनैव सा ।। आदिमद्वस्तुबुद्धिस्तु वाचकैरक्षरैः स्फुटैः ॥ २२ ॥ ,
तेषामन्यथाव्याख्यानं तु व्याख्यानमेव। पठन्त एव त्यध्येतारः तत आदिममोऽर्थान् बहून् अवगच्छन्तीति नानादिर्वेदः। तस्मान्न रचनात्वमप्रयोजकम् ॥
* भावात् ---अभिव्यक्तेः ।
+ रूपादिति। अनित्यवस्तुसम्बन्धात् किल अनित्यत्वं, तानि वस्तूनि नित्यान्येव यदि, तदा को दोष इति चेत् : सा कल्पना कल्पितैव -सर्वथा न साधीयसी। यत: अमित्यवस्तुसंयोगश्च स्वरसत एव प्रतीयते ॥
नेपां--उक्तवाक्यानाम्। अन्यथा-अभिव्यक्तिपरत्वादिना ।
। दधृष्टाः--ख. ' प्रकृत-क.मन्वन्तरे-ख.
रूपाद्य-ग. मत्त्व-ख.