________________
आह्निकम् ४] वेदोपदेषुः लोकविलक्षणत्वम्
581 *शाखान्तरोक्तसापेक्षविक्षिप्तार्थीप'वर्णना। इत्यादयो न दृश्यन्ते लौकिके सन्निबन्धने ॥ १७॥ तेनाध्येतृगणाः सर्वे रूपात् वेद कृत्रिमम् । मन्यन्त एव लोके तु पीतं मीमांसकैर्यशः ।। १८ ॥ वेदा न पठिता यैस्तु त्वादशैः कुण्ठबुद्धिभिः । कार्यत्वं ब्रुवते तेऽस्य रचनासाम्य मोहिताः ॥ १९ ॥
[वेदानां पौरुषेयत्वं दुग्पह्नवम् ] • उच्यते-मीमांसका: यशः पिबन्तु ! पयो वा पिबन्तु ! बुद्धनाड्यागनयनाय बालीवृतं ना पिरन्तु ! वेदस्तु पुरुषप्रणीत एव, नात्र भ्रान्तिः ॥ .
यथा घट दिसंस्थानात् भिन्नमप्यचलादिषु । संस्थान करीमत् सिद्धं वेदेऽपि रचना तथा ॥२॥ यच्चात्र किञ्चिद्वक्तव्यं, तत् पूर्वमेव (पु. 491) सविस्तरमुकम् ॥
[वेदानां रचनावैलक्षण्यात् तस्कर्ताऽपि विलक्षण एव ] अपि च यद्विलक्षणेयं रचना, तद्विलक्षण एव कर्ताऽनुगीयताम् ! न पुनस्तदपलायो युक्तः इत्यप्युक्तम् (पु. 503)॥
याश्चैताः निर्विवाद सिद्ध कर्तृकाः कालिदासादिरचना: चमत्कारिण्यः, तासामन्योन्यविसदृशं रूपमुपलभ्यत एव ॥
• * शाखान्तरेत्यादि। एकंवा रूपसंयोग चोदनाख्याऽविशेषात् ' (जै. सू. 2-4-9), 'सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्' (ब्र. सू. 3-5-1) इत्यादौ हि शाखान्तरोक्तार्थानामप्युपसंहारादिनिरूपितः। अल्पबुद्धिमतां वाक्यं नैतावद्विस्तृतं भवेत्। अत एव सन्निवन्धने इत्युक्तिः ॥
+भिन्नं-विलक्षणम् । रचनासु वैलक्षण्यमात्रेण कथमकर्तृकत्वसिद्धिरित्यर्थः ।
वर्णनम्-ख,
रचनाः-ख.