SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ 580 वेदपौरुषेयत्वसाधनम् यदि स्वाभाविकी वेदे पदानां रचना भवेत् । * पटे हि हन्त तन्तूनां कथं वैर्विकी न सा ? ॥ १३ ॥ 'शन्नो देवीरभिष्टये ' (अथ. सं. 1--6-1), 'नारायणं नमस्कृत्य (म. भा. आ. 1-1), ' अस्त्युत्तरस्यां दिशि देवतात्मा' ( कुमारसं. 1-1 ) इति तुल्ये रचनात् कचित् कर्तृपूर्वकत्वं अपरत्र तद्विपर्यय इति महान् व्यामोहः । एवं हि धूमोऽपि कश्चित् अनशिक इत्यपि स्यात् ॥ [वेदस्य पौरुषेयत्वेऽपि न लौकिक काव्याद्यवैलक्षण्यम् ] किमिदानीं कुमारसंभवतुल्योऽसौ वेदः संपन्नः ? + सर्वास्तिकधुर्येण वेदामाण्यं साधितं तैयाचिकेन ! [न्यायमझरी [वेदस्य पौरुषेयत्वसंभवशङ्का ] ननु ! या: कालिदासादिताः कर्तृपूर्विकाम। ताभ्वो विलक्षणैवेयं रचना भाति वैदिकी ॥ १४ ॥ अलमुपहासेन ! रचनामात्रमेव तुल्यं वेदस्य कुमारसंभवेत, नान्यत् । न चेयतोपहसितुं युक्तम् । किमस्य शब्दत्वसामान्यं शङ्खशब्दसाधारणं नास्ति ? सत्तासामान्यं वा सर्वसाधारणमिति ॥ इहाध्ययनवेलायां रूपादेव प्रतीयते । अत्रत्वं वेदस्य भेदेस्तैस्तैरजन्यगैः ॥ १५ ॥ नामाख्यातोपसर्गादिप्रयोगगतयो कनवाः । स्तुतिनिन्दापुराकल्पपरकुत्यादि गीतयः ॥ १६ ॥ शब्दत्वं- ख. अहो ! * प्रत्यक्षापलापोऽयमित्याशयेनाह - पट इत्यादि ॥ 1 सर्वास्तिकेत्यादि । वेदप्रामाण्यरक्षणं नैयायिकानामेव भारः इति क्त (पु. 7 - 10 ) इति भावः ॥ 1 नवा :- लोके अपरिचिताः ॥ 1 एवं - ख. गीता ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy