________________
578
वेदतौ रुषेयत्वसाधनम्
[न्यायमअरी
तस्मादस्तु नाम ! नैनान् हेत्वन्तरोपन्यासिनः निगृह्णीमः। *अनुदकथेयं प्रस्तुता ॥
अयमपि अर्यमाणकर्तृकत्वादिति हेतुः किं । स्वतन्त्र एवाकर्तकत्वसिद्धये 'प्रयुज्यते?' उत अस्मदुपरचित रचनात्वप्रतिघाताय? इति ॥
[अनुमानस्य अनुमानेन बाधासंभवः) तत्र न तावदनुमानं अनुमानान्तरपरिपन्थि कथयितुमचितम् ||प्रत्यक्षागमवत् अनुगानस्याप्यनुमान बाधकत्वानुपपत्तेः । न हि तुल्यबलयोः अनुमानयोः बाध्यबाधकभारः, तुल्यबलत्वादेव। अतुल्यबलत्वे तु यत्कृतं अन्यतरस्य दौवल्यं, तत एव तदप्रामाण्य सिद्धेः किमनुमानवाधया?
* अक्षुद्रा-महती उपहासोऽयम् ॥ .
स्वतन्त्रः--रचनात्वहेतुकसकर्तृकत्वानुमानवत् स्वसाध्यसाधनक्षमः ।।
* अस्मदित्यादि । अस्माभिर्वर्णिते रचनात्वहेती सप्रतिपक्षत्वसंपादनाये. त्यर्थः॥
8 सूचीकटाहन्यायेन द्वितीयकल्पं निराकरोति तत्रेति ॥ | प्रत्यक्षागमवत् इति व्यतिरेकदृष्टान्तः॥ . .
पायकृतमिति । प्रत्यक्षविरोधात् वह्नयनुष्णत्वानुमानं, आगमविरोधात नरशिरःकपालशौचाद्यनुमानं च दुर्बलं वक्तव्यम् । तथा च प्रत्यक्षं आगमश्चेति द्वयमेव बाधक, न त्वनुमानं अनुमानस्य, तौल्यादिति सिद्धम् । ननु तर्हि शुक्तिरजतप्रत्यक्षस्य नेदं रजतमिति प्रत्यक्षं बाधकं सर्वसम्मतम्। एवं शब्देऽपि अपरीक्षकवाक्यस्य परीक्षकवाक्यं बाधकं दृष्टम् । प्रत्यक्षत्वाद्यविशेषे कथमन्यतरस्य बाधकत्वं बाध्यत्वं वेति चेत् ; न हि वयं प्रत्यक्षत्वं शब्दत्वं वा बाधकत्ये बाध्यत्वे वा प्रयोजकं वदामः । निरवकाशं यत् तत् बाधकं, सावकाशं चेत् बाध्यमित्यव निष्कर्षः। ननु तर्हि अनुमाने ऽपि कुतस्तथा नास्ताति चेत्, अनुमानस्य सावकाशत्वनिरवकाशत्वे हि प्रत्यक्षागमाधीने एवं दृष्टे । दृष्टे विषये प्रत्यक्ष, अदृष्टे आगमश्चेति द्वयमेव स्वतन्त्रं प्रमाणम् ।
'प्रयोज्यते-ख.
चरित-ख.