________________
अह्नकम् ४ अस्मयमाणककत्वहेतोरप्रयोजकत्वम
577 यत्कृतं वा पठेदेषः तस्मिन्नपि हि संशयः । माया चेदमनादित्वं *उन्मीलदिव दृश्यते ॥ ७ ॥ असत्यादिप्रमाणे च कर्तृताऽनुभवं प्रति । स्मृतिः प्रवन्धसिद्धाऽपि स्पृशत्यन्धपरम्पराम् ॥ ८॥ योगिभिर्ग्रहणं कर्तुः इत्येतदपि दुर्वचम् । कर्तृता हिदि दुर्वाधा कथं गृह्येत तैरपि ? ॥ ९ ॥ योगि भस्सा गृहीतेति वियमेतन्न मन्महे । अमन्वानाच गच्छेम विस्रब्धास्तत्पथं कथम् ? ॥ १० ॥ वेदात् कर्बववोध तु स्पष्टमन्योन्यसंश्रयम् । ततो वेदप्रमाणत्वं वेदात् कर्तुश्च निश्चयः ॥ ११ ॥
तस्मात् पौर्वापर्यपालोचनारहितयथाश्रुतमन्त्रार्थवादमूला भ्रान्तिरेपा, न पुनः परमार्थतः कश्चित् कञ्चित् वेदस्य कर्तारं स्मरति । तस्मात् अकृतका वेदाः: अवश्यस्मरणीयस्यापि कर्तुः अस्मरणात् । न च व्यधिकरणो हेतुः; अस्मयमाणकर्तृकत्वादित्येवं साधन प्रयोगात् ॥
अस्मर्याणकर्तृकत्वात् न वेदानादित्व सिद्धिः] अत्रोच्यते-अपि तत् गुर्वध्ययन पूर्वकत्वं साधनमुपेक्षित याज्ञिकैः ! अयमभिनवो** हेतुः अस्मर्यमाणकर्तृकत्वात् इति प्रयुक्तः !
* उन्मीलदिव---अङ्कुरायमाणमिव ॥ । असति इति पदविभागः ॥ हृदि दुर्बोधा मनसाऽपि प्रतिपत्तुमशक्या ॥
वयं-अयोगिनः इतरे ॥ । एषा -- वेदपौरुषेयत्वस्मृतिः ॥
' व्यधिकरण इति। कर्तुः अस्मरणादित्युक्ते हि स्मरणाभावो हेतुः प्राप्तः। स च चेतनगतः, न तु पक्ष इति हेतुसाध्ययोर्वैयधिकरण्यम् ॥
** अभिनव इति हेत्वन्तररूपनिग्रहस्थानोपादकम् ।। NYAYAJANJARI