________________
576
वेदपौरुषेयत्वसाधनम्
[न्यायमञ्जरी
[वेदपौरुषेयत्वासंभवपूर्वपक्षः] आह - किमिति सदसद्विवेकविकल शाकटिकादिप्रवादविप्रलब्धः एवं भ्राम्यसि ? कि ल स्वल्पमपि कर्म पित्रा मात्रा वोपदिश्यमानं तद्वचनप्रत्ययादनुष्ठीयते। तदयमियान् अनेकक्लेशवित्तव्यमादिनिर्धयों वैदिकः कर्मकलापः । एवमेव तदुरदेशिनमाप्तं संस्मृत्वैव क्रियते इति महान् प्रमादः ॥
एवञ्च सति उच्चावचकविचितजरत्पुस्तकलिखितकाव्यवत् अस्मर्यमाणकर्तृकेण वेदेन व्यवहारानुपपत्तेः अवश्यस्मरणीयः तत्र कर्ता स्यात् । न च कदाचन वेदेषु व्यवहारविच्छेदः संभाव्यते, येन तत्कृतं जरत्कृपारामादिष्विव तेषु कत्रस्म णं स्यात् । तस्मा- . दवश्यं स्मर्यंत कर्ता।' न च संस्मयते, स्मतुं शक्यते वा? स्मृतिर्हि भवन्ती तदनुभवमूला भवति। न च मूलेऽपि कनुभवः कस्यचिजातः, सर्गादेरभावात् । भावे वा कर्तुर शरीरत्वेन दर्शनयोग्यत्वाभावात्॥
| वेदानां पौरुषेयत्वेऽप्यनादित्वमवर्जनीयम् । . सशरीरत्वपक्षे वा पुरुषः कोऽपि तादृशः। तदानीं दृश्यमानोऽपि वेदं कुर्वन्न दृश्यते ॥ ५॥ ||अधीयमाने दृऐऽस्मिन् तदा संशेरते जनाः। किमेष रचयेद्वेदं उत वाऽन्यकृतं पठेत ॥ ६ ॥ * शाकटिका- शकटेन जीवतीत्यर्थे टक्, पामर इति यावत् ॥ +एवमेवेति। न ह्येवं लोके दृश्यते, संभवि वेत्याशयः ।। * एवञ्च सति-- बेदस्य सकर्तृकत्वेऽङ्गीकृते सति ॥
तत्कृतं --- विच्छेदकृतम्॥
||अधीयमान इति । 'लटः शतृशानचौ इति शानच । आदिपुरुषे वेदं पठति सतीत्यर्थः ॥
न चासा-क.