SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ४] वेदे कर्लस्मरणं न सकर्तृकत्व विरोधि 575 अनैकान्तिकश्चायं हेतु:, भारतेऽप्येवमभिधातुं शक्यत्वात् । भारताध्ययनं सर्वे गुर्वध्ययनपूर्वकम्, भारताध्ययनवाच्यत्वात्, इदानीर्तनभारताध्ययनवत् इति ॥ [वेदस्य पौरुषेयत्वे भारतादेरप्यपौरुषेयत्वप्रसङ्गः ] ननु ! भारत कर्तृस्मृतिरविगीता विद्यते; यद्येवं वेदेऽपि प्रजापतिः कर्ता * स्मर्यत एव ॥ + अथ वैदिकमन्त्रार्थवादमूलेयं प्रजापति' कर्तृत्वस्मृति:'; 'प्रजापतिना चत्वारो वेदा 'असृज्यन्त', चत्वारो वर्णाः चत्वार आश्रमा:' इति तत्र पाठादिति - उच्यते - हन्त तर्हि भारतेऽपि 'तत्रत्यवचन' मूलैव पाराशर्यस्मृतिरिति शक्यते वक्तुम् ॥ [ पौरुषेयत्वा पौरुषेयत्वयोः वेद भारतयोस्तौल्यम् ] यथा प्रजापतिर्वेदे तत्र तत्र प्रशस्यते । भारतेऽपि तथा व्यासः तत्र तत्र प्रशस्यते ॥ २ ॥ अथ प्रणेता वेदस्य न दृष्टः केनचित् क्वचित् । द्वैपायनोऽपि किं दृष्टः भवत्पितृपितामहैः ॥ ३॥ * सर्वेषामविगीता चेत् स्मृतिः सत्यवतीसुते । प्रजापतिरपि स्रष्टा लोके सर्वत्र गीयते ॥ ४ ॥ 'स्मर्यते । तथा च प्रदर्शयिष्यत्युत्तरत्र ॥ 1. अथेति । मन्त्राणामर्थवादानां च न स्वप्रतिपाद्यार्थे प्रामाण्यम् । अपि वादिस्मृतयो हि वेदानुसारादेव प्रमाणानि । वेदस्तु स्वविषये स्वयं कथं प्रमाणं भवेत् । न हि विप्रतिपत्तिस्थले विप्रतिपन्नवाक्यमेव प्रमाणीकर्तुं शक्यमिति भावः ॥ तत्रत्येति । भारतस्थेत्यर्थः ॥ 1 स्मृतिः - ख. 2 असृजन्त-क. ' तत्र वचन - ख. प्रवचन - ग.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy