SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ 574 वेदपौरुषेयत्वसाधनम् न्यायमञ्जरी नापि कालात्ययापदिष्टः ; प्रत्यक्षेण, आगमेन वा वेदे वक्रभावनिश्चयानुत्पादात् ॥ ___ नापि सत्प्रतिपक्षः ; *प्रकरणचिन्ताहेतोः स्थाणुपुरुषविशेषानुपलब्धेरिव हेतुत्वेनानभिधानात् ॥ नपि परमाण्वनित्यतायामिव मूर्तत्वं अप्रयोजकमिदं साधनम; रचनाव्यापाराणां कर्तृव्यापारसाध्यत्वावधारणात् । यथा धूमस्य ज्वलनाधीन आत्मलाभः; शप्तिस्तु धूमादग्नेः-तथा कर्बधीना रचनानामभिनिर्वृत्तिः, प्रतीतिस्तु ताभ्यः कर्तुरिति । तस्मात् प्रयोजक एवार्य हेतुः ॥ [वेदपौरुषेयत्वानुमानस्य ससत्प्रतिपक्षत्वाशङ्कानिरासः] ननु ! सत्प्रतिपक्षत्वे 'विवदन्ते। तथा च मीमांसकेः प्रतिहेतुरिह गीयते (श्लो. वा. १-१-७-३६६ ...... . * 'वेदस्याध्ययनं सर्व गुर्वध्ययन पूर्वकम्। वेदाध्ययनवाच्यत्वात् अधुनाऽध्ययनं यथा' इति-नैतद्युक्तम्-एवंप्रायाणां प्रयोगाणामप्रयोजकत्वात् । न हि तिच्छब्दवाच्यत्वकृतं अनादित्वमुपपद्यते ॥ . *प्रकरणचिन्तेति। 'यस्मात्प्रकरणचिन्ता स प्रकरणसमः' (न्या. सू. १-२-७) सौत्रलक्षणानुरोधेन एवमुक्तिः। प्रकरणं-पक्षप्रतिपक्षी, तावधिकृत्य चिन्तेत्यर्थः ॥ ननु कर्तृपूर्वकत्वे रचनात्वं हेतुरिति कथम् ? रचनायां हि कर्ता हेतुः, न तु कर्तरि रचना हेतुरित्यत्राह-यथेति। तथा च कारकहेतोः, कार्य ज्ञापकहेतुर्भवतीत्यर्थः ॥ वेदस्येत्यादि । नन्वेतावताऽपि कथं वेदनित्यत्वसिद्धिरिति चेत्, एवमेव सर्वेषामध्ययनानां तत्तदध्ययनपूर्वकत्वे सिद्धे महाप्रलयानङ्गीकारात् संसारस्यानादित्वसिध्या वेदानादित्वसिद्धिः ॥ $ तच्छब्दः--वेदाध्ययनशब्दः ॥ विवदन्ते च-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy