________________
आह्निकम् ४]
वेदपौरुषेयत्वानुमानम्
573
573
चतुर्थमाह्निकम् --शब्द परीक्षा
वेदानां पौरुषेयत्वानुमानम्]. एवं कृतकत्वे वर्णानां साधित सात वर्णात्मनः पदात् प्रभृति *सर्वत्र पुरुषस्य स्वातन्त्र्यं सिद्धं भवति ॥
पिद नित्यत्वपक्षेऽपि वाक्ये तद्रचनात्मके।
कर्तृत्वसंभवात् पुंसः, वेदः कथमकृत्रिमः॥१॥ . तथा च वैदिक्यो रचनाः कर्तृपूर्षिकाः, रचनात्वात् , लौकिकरचनावत्। एष च पञ्चलक्षणो हेतुः, प्रयोजकश्चति गमक एव, न हेत्वाभासः॥
वेदपौरुषेयत्वानुमाने दूषणोद्धारः । न तावदयमसिद्धो हेतुः ; 'शन्नो देवीरभिष्टये' (अथ.सं. १-६-१) इत्यादिषु वेदवाक्यसन्दर्भेषु पदरचनाया. स्वरक्रमादिविशेषवत्याः प्रत्यक्षत्वेन पक्षे हेतोः वर्तमानत्वात् ॥
नापि विरुद्धः; 'कर्तृपूर्वकत्व'वति सपक्षे कुमारसम्भवादौ रचनात्वस्य विद्यमानत्वात् ॥ . नाप्यनैकान्तिकः ; 'कर्तृरहितेषु गगनादिषु', गगनकुसुमादिषु वा रचनाया अदृष्टत्वात् ॥
(एतदाह्निके टिप्पणीस्थलानां बिरलत्वात् सुज्ञानार्थ तानि चिह्नयोंजितानि)
*सर्वत्र ----वाक्यादिषु । वर्णानामेवानित्यत्वे वाक्यानां अनित्यत्वं कैमुतिकसिद्धमिति भावः ॥
पदेत्यादि। यद्यपि 'वर्णनित्यत्वपक्षेऽपि ' इति वक्तु मुचितम् ; परन्तु मीमांसकैः, औत्पत्तिकसूत्रे शब्दार्थयोस्सम्बन्धस्य सहजत्वं स्थापितम्। तत्र प्रसक्तः शब्दः पदरूप एव । अतश्च तदनन्तरे शब्दनित्यताधिकरणे पदात्मकस्यैव नित्यत्वं साधितमिति एवमुक्तम् ॥
पञ्चलक्षणः--पक्षसत्त्वादि (पु. 282) युक्तः ॥
1 कर्तृत्व-ख.
गगनादिषु -क.