SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ 571 आह्निकम् ३] शब्दानित्यत्वविवारनिगमनम तेन यदुच्यते-(श्लो. वा. १-१-५, अनु. २१) 'जातिमत्त्वैन्द्रियत्वादि वस्तुसन्मात्रबन्धनम् । शब्दानित्यत्वसिध्यर्थ को वदेत् ? यो न तार्किकः ॥' इति तदविदिततार्किकपरिस्पन्दस्य व्याहृतम् ॥ [मीमांसकोक्तशब्दनित्यत्वहेतूनामेवाप्रयोजकत्वम् ] इह त्वप्रयोजका हेतवो भवन्ति ह्यस्तनोच्चारितस्तस्मात् गोशब्दोऽद्यापि वर्तते। गोशब्दज्ञानगम्यत्वात् यथोक्तोऽद्यैष गौरिति ॥ ३२४॥ विज्ञानग्राह्यता नाम वस्तुस्वाभाव्यवन्धना। नित्यत्वे कृतकत्वे वा न खल्वेषा प्रयोजिका ॥ ३२५ ॥ अप्रयोजकता चैवंप्रायाणां चैवमुच्यते । स्वयं चैते प्रयुज्यन्ते हेतुत्वेनेति किं विदम् ॥ ३२६ ।। [शब्दानित्यत्वविचारनिगमनम् ] एवं नित्यत्वे दुर्बलो युक्तिमार्गः तस्मान्मन्तव्यः कार्य एवेति शब्दः। वाचोयुक्तित्वे वैदिको योऽनुवादः न्याये 'प्रत्युक्ते' किंफलस्तत्प्रयोगः ॥ ३२७ ।। कृतकत्वसावयवत्वादिप्रयुक्तेऽनित्यत्वे वक्तव्ये, वस्तुसत्तामात्रनिबन्धनं सर्ववस्तुसाधारणं जातिमत्त्वैन्द्रियकत्वादि तार्किकादन्यः को वदेत्-इत्युपहासः । अविदितेत्यादि । परिस्पन्दः-व्यवहार इति यावत् । न हि तार्किकाः जातिमत्त्वं, ऐन्द्रियकत्वं वा सर्ववस्तुसाधारणं वदन्ति ॥ __वस्तुस्वाभाव्यबन्धनेति। ज्ञेयत्वं हि केवलान्वयि ; न तु जाति मत्वादि॥ - प्रयुक्त-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy