________________
570
शब्दानामनित्यत्वसमर्थनम्
न्यायमञ्जरी
वार्तिकोक्तशब्दानित्यत्वसाधनप्रकारः] वार्तिककृता शब्दानित्यत्वे साधनमभिहितं ‘अनित्यः शब्दः, जातिमत्त्वे सत्यस्मदादिबाह्यकरणप्रत्यक्षत्वात्, घटवत्' (न्या. वा. २-२-१४) इति ॥
कुमारिलोक्तवार्तिकदृषणस्योद्वारः] यत्तु अत्र जातीनामपि जातिमत्वादनैकान्तिकत्वमुद्भावितम् -'एकार्थसमवायेन जातिर्जानिमती यतः (हि वः)' (श्लो. वा. १-१-६-३-३९) इति-तत् अत्यन्तमनुपपन्नम्-निस्सामान्यानि 'सामान्यादीनीति' सुप्रसिद्धत्वात् । न हि घटे घटत्वपार्थिवत्वे स्तः इति घटत्वसामान्येऽपि पार्थिवत्वसामान्यमस्तीति शक्यते वक्तुम् , अतो निरवद्य एवायं हेतुः॥
शब्दस्तु नित्यः, वायवीयसंयोगविभागाभिव्यङ्ग्यः ।, ततश्च ताल्वादिसंयोगविभागात् वायौ सूक्ष्मा: संयोगविभागा जायन्ते । ते च क्रमशः श्रोत्रं प्राप्य तत्रापि शब्दमभिव्यञ्जयन्ति। श्रोत्रेण च वायुस्संयुक्तः, तत्समवेतश्च ध्वन्यात्मकः शब्दः। स एव च वर्णानामभिव्यञ्जकः । तथा च संयुक्तसमवायात् शब्दग्रहणम् (न्या. र. स्फोट. ३९+शब्दानित्य-३४)। एवञ्च शब्दाभिव्यञ्जकवायवीयसंयोगविभागानां श्रोत्रदेशाप्राप्तया शब्दस्याग्रहणम्, न तु अस्थानात् । यथा वा सत एवाकाशस्य कूपरूपस्य मृत्पूरणेऽग्रहणं तिरोधानादेव, न त्वस्थानात तथेति ' कूपपूरणयत्नेन ख तिरोधीयते यदा। अस्थानादित्ययं हेतुः तदाऽनैकान्तिको भवेत् ' (श्लो. वा. १-१-६-३८) इत्युक्तं न युक्तम्--इत्यर्थः ॥
जातिमत्त्वे सति इति सामान्यादिवारणाय । आत्मवारणाय बाह्यपदम् ॥
न हीत्यादि । एकार्थसमवायो हि सामानाधिकरण्यविशेषः । सामानाधिकरण्यसम्बन्धश्च न विशिष्टवैशिष्टयव्यवहारहेतुः। तर्हि एकभूतलवृत्तित्वमात्रादपि 'दण्डी' इत्यादिव्यवहारापत्ति: । यद्यपि 'एक रूपम्' इत्यादौ सामानाधिकरण्यस्यापि तथात्वमङ्गीकृतम्, अथापि जातिद्वयस्य तथात्वं तु न भवत्येव । जातिर्हि विलक्षणप्रतीतिनिर्वाहकतया सिद्धा। यदि एका जाति: अन्यत्रापि सामानाधिकरण्येन स्यात्, तर्हि कथं वैलक्षण्यनिर्वाहः इत्यागृह्यम् ॥
1 सामान्यानीति-क.