________________
आह्निकम् ३] शब्दानित्यत्वे सौत्रहेतवः
569 तस्मात् कार्यपक्षे नियतग्रहणोपत्तः, अभिव्यक्तिपक्षे च तदभावात् कार्य एव शब्द इति स्थितार ।
'तदिदमुक्तं सूत्रकृता -- 'आदिमत्त्वाइन्द्रियकत्वात् कृतकवदुपचाराचा
नित्यः शब्दः' (न्या.सू. २-२-१३) इति ।।
आदिमत्वादिति संयोगविभागादीनां शब्दे कारकत्वं, न व्यञ्जकत्वमिति दर्शितम्। अतश्च न प्रयत्नानन्तरीयकत्वं अनेकान्तिकम् ॥ .
ऐन्द्रियकत्वादिति कार्यपक्ष एव शब्दस्य नियतं ग्रहणमित्युक्तम्। प्रतिपुरुषं प्रत्युच्चारणं च शब्दभेदस्यैन्द्रियकत्वादिति वा हेत्वर्थः। तेन प्रत्यभिज्ञादुराशा श्रोत्रियाणामपाकृता भवति ।
कृतकवदुपचारादिति तीवमन्दविभागाभिभवादिव्यवहारादर्शनात् सुख दुःखादिवदनित्यः शब्द इति दर्शितम् ॥
तथा'प्रागूर्ध्वमुच्चारणादनुपलब्धेः आवरणानुपलब्धेश्च'
(न्या.तू. २-२-१८) • इत्यनेन सूत्रेण शब्दाभावकृतमेव तदग्रहणमित्युक्तम्। न हि स्तिमिता वायवः शब्दमावरीतुमर्हन्ति । मूर्ने हि मूर्तेन व्यवधीयते, नामूर्त, आकाशादिवत्। न च प्रकृत्यैवाकाशादिवदतीन्द्रियः शब्दः। तस्मात् क्षणिकप्रतीतेस्तत्कालमेव शब्दस्यावस्थानमिति अस्थानहेतोरपि नान्यथासिद्धत्वम् ॥
प्रागृ@मिति। उच्चारणात् प्राक्, उच्चारणादूचं इत्यन्वयः ॥
अस्थानहेतोरिति । 'अस्थानात् ' (जै. सू. १-१-७) इति पूर्वपक्षसूत्रे-उत्पन्नस्य शब्दस्य अवस्थित्यदर्शनात् विनष्टः शब्दः इत्यनित्यत्व मुक्तम् अस्य समाधानं 'सतः परमदर्शनं विषयानागमात् ' (जै. सू. १-१-३३) इति । विद्यमानस्यैव शब्दस्याग्रहणं इन्द्रियदेशाप्राप्तथैव, न त्वविद्यमानत्वात् ।