________________
568 शब्दानामनित्यत्वसमर्धनम्
न्यायपअरी शब्दस्य गुणत्वेऽपि · महान् ', ' अल्पः ' इत्यादिव्यवहारः नायुक्तः
कथं तह्यस्य महत्त्वादियोगः : 'निर्गुणा गुणाः' इति हि काणादाः। अस्ति हि प्रतीतिः 'महान् शब्दः' इति-समानजातीयगुणाभिप्रायं तत् कणादवचनमिति न दोषः। तस्मादाकाशगुणः शब्दः॥ अपि च
यथाऽऽत्मगुणता हीच्छाउपादेरुपपत्स्यते । शब्दो नयेन तेनैव भविष्यति नभोगुणः ॥ ३२१॥
[शब्दस्य शब्दान्तरजनकत्वं युक्तमेव] ये तु समानजातीयशब्दारम्भकत्वनिषेधहेतवः, 'शब्दत्वात्' इत्यादयः परैरुपन्यस्ताः (पु. 535)-तेषामप्रयोजकत्वात् न साधनत्वम् ॥
इत्थं सन्तानवृत्त्या च शब्द ग्रहणसम्भवे । कल्पना ऽल्पतराऽरमाकं न शब्दव्यक्तिवादिनाम् ॥ ३२२ ॥ शाक्यका पलनिर्ग्रन्थग्रथितप्रक्रियां प्रति ।
यत्त दूषणमारयातं अस्माकं प्रियमेव तत् ॥ ३२३॥ समानजातीयेति । तेशं गुणरहितत्वं स्वात्मनि गुणान्तरानारम्भकत्वात् । तदनारम्भकत्वं च रूपादिपु रूपाद्यन्तरानुपलब्धेः, अनवस्थानाच' इत्येव श्रीधरेण कन्दल्यां (पु. ९४) युक्तिकथनात् रूपे रूपं नास्तीत्येवमङ्गीकारेऽपि संख्याद्यङ्गीकारे न हानिरिति भाव । ननु तर्हि गुणोऽपि द्रव्यवत् समवायिकारणं स्यात् इति चेत् । इष्टापत्तिः। अथवा इदं वैभवेनोक्तम् । महत्त्वादिकं शब्दोत्पत्तिहेतुभूनाभिघातापसंयोगोपाधिकं स्यात्, तथैवानुभवात् ॥
एवमनङ्गीकारे आकाशवत् आत्माऽपि न सिध्येदित्याह-अपि चेति ॥ इच्छाद्वेषादयो हि शरीरेन्द्रियाद्यपाधिका एव दृष्टा इति आत्माऽपि आकाशवदन्यथासिद्धः स्यात् ॥
अप्रयोजकत्वादिति । पूर्वोक्तदिशा शब्दस्य शब्दान्तरजनकत्वस्यानिवार्यत्वात् , अन्यथा आत्मगुणानामपि ज्ञानादीनां तथात्वप्रसङ्गादित्यर्थः । आत्मगुणानां तु तथात्वं तत्प्रकरणे साधयिष्यते ॥