________________
आह्निकम् ३]
शब्दस्य गुणत्वसमर्थनम
567
सन्तानकल्पना, सन्तानकल्पनायां च समानजात्यारम्भकत्वात् कर्मव्यवच्छेदे सति गुणत्वसिद्धिरितीतरेतराश्रयत्वमेव॥
उच्यते-नोभयत्राप्येष दोषः। श्रोत्रग्राह्यत्वादेव शब्दस्याकाशाश्रितत्वं कल्प्यते, समानजातीयारम्भंकन्वं च गुणत्वात् । आकाशैकदेशो हि श्रोत्रमिति प्रसाधितमेतत् । प्राप्यकारित्वं चेन्द्रियाणां वक्ष्यते (आह्निके ८) । न चाकाशानाश्रितत्वे शब्दस्य श्रोत्रेण प्राप्तिर्भवति ; न चाप्राप्तस्य ग्रहणमिति तदाश्रितत्वं कल्प्यते॥ ... एवं समानजातीयारम्भकत्वमपि तत एव श्रावणत्वात् दूरवर्तिनः शब्दस्य श्रवणे सति कलप्यते, न तु गुणत्वादिति नेतरेतराश्रयम् ॥
[शब्दस्य कार्यत्वादप्याकाशाश्रितत्वं साधयितुं शक्यम् ] कार्यत्वादाकाशाश्रितत्वं कल्यत 'इत्येके ॥
ननु ! कार्यत्वादप्याकाशाश्रितत्वकल्पनायां तदवस्थमेवेतरेतराश्रयम ; कार्यत्वादाकाशाश्रितत्वम् , आकाशाश्रितत्वे सति नियतग्रहणपूर्व पूर्वरीत्या कार्यत्वमिति-नैतदेवम-भेद विनाशप्रतिभासाभ्यामेव कार्यत्व सिद्धेः॥
किमर्थस्तर्हि नियतग्रहणसमर्थनाय अयमियान प्रयासः क्रियते ? नियतग्रहणमपि कार्यपक्षानुगुणमिति दर्शयितुम, न पुनरेषैव कार्यत्वे युक्तिरित्यलं सूक्ष्मेक्षिकया ॥
[शब्दस्य कर्मभिन्नत्वं प्रत्यक्षसिद्धमिति पक्षः] अपर आह–परिस्पन्दविलक्षणत्वस्य प्रत्यक्षत्वात् अकर्मत्वं शब्दस्य साध्यते, न समानजात्यारम्भकत्वात् इतीतरेतराश्रयस्पर्शोऽपि नास्तीति । तस्मात सर्वथा परिशेषानुमानात् शब्दस्य
गुणत्वसिद्धिः॥
उभयत्र---गुणत्वे सजातीयारम्भकत्वे च ॥
भेदेति । अभेदे सति आकाशादिवत् नित्यत्वं स्यात। भेदे सत्यपि परमाण्वादिवत् नित्यत्वं तु न संभवति, विनाशप्रतिभासात् ।।
1इत्यन्ये-क.