________________
566 शब्दानामनित्यत्वममर्थनम्
न्यायमञ्जरी किमेतर्हि शब्दस्य गुणत्वे प्रमाणम् ? परिशेषानुमान मिति ब्रूमः। प्रसक्तयोः द्रव्यकर्मणोः प्रतिषेधे सामान्यादावप्रसङ्गाच्च गुण एवावशिष्यते शब्दः॥
[शब्दस्याद्रव्यत्वम् ] कथं पुनः ? न द्रव्यं शब्दः, एकद्रव्यत्वात्। अद्रव्यं वा भवति द्रव्य, आकाशपरमाण्वादि-अनेकद्रव्यं वा-यणुकादि कार्यद्रव्यम्। एकद्रव्यं तु शब्दः, एकाका शाश्रितत्वात् । तस्मान्न द्रव्यम् ॥
[शब्दस्य कर्मादिभिन्नत्वम् ] __ नापि शब्दः कर्म, शब्दान्तर जनकत्वात् । कर्मणो हि समानजात्यारम्भकत्वं नास्ति॥
सत्ताशब्दत्वादिसामान्यसम्बन्धाच्च सामान्यादि'त्रय'प्रसङ्गोऽस्य नास्तीति पारिशेष्यात् गुण एव शब्दः॥
[शब्दस्य गुणत्वसाधनम् ] . . ननु ! गुणत्वसिद्धौ सत्यां आकाशाश्रितत्वं शब्दस्य भविष्यति; गुणस्य द्रव्यानाश्रितस्या दर्शनात् पृथिव्यादीनां च शब्दाश्रयत्वानु पपत्तेः। ततश्च गुणत्वे सति एकद्रव्यन्वं, एकद्रव्यत्वे सति गुणत्वमितीतरेतराश्रयत्वम् ॥
तथा च समानजातीयारम्भकत्वमपि गुणत्वसिद्धिमूलमेव। गुणत्वे सति शब्दस्याकाशाश्रितत्वात् तदात्मकेन श्रोत्रण ग्रहणम्। तच्च देशान्तरगतसंयोगविभागप्रभवस्य शब्दस्य सन्तानमन्तरेण श्रोत्रदेशप्राप्तयभावात् न सिध्यतीति गुणत्वसिद्धिमूला
एकद्रव्यत्वादित्यस्योपपादनं --अद्रव्य मिति। द्रव्यासमवायिकारणक. मित्यर्थः॥
समानजात्यारम्भकत्वं-'समानजाति' इत्यत्र बहुव्रीहिः। यद्यपि द्रव्यं द्रव्यान्तरमारभते, अथापि जातिभेद एव घटकपालादौ कार्यकारणतावच्छेदकः॥
इतरेतराश्रयत्वान्तरमप्याह-तथा चेति ॥
त्रिये-क.