________________
आह्निकम् ३]
शब्दस्य गुणत्वसमर्थनम्
565
तीवेणापि शनैरेवं अतीवारम्भसम्भवः । सीदत्सचिवसामर्थ्यसापेक्षक्षीणवृत्तिना ॥ ३१६ ॥ वीचीसन्तानदृष्टान्तः किञ्चित्साम्यादुदाहृतः । न तु वेगादिसामर्थ्य शब्दानामस्त्यपामिव ॥ ३१७ ॥
[निरावरणमेवाकाशं शब्दोत्पत्तिकारणम्] यत्त कुड्या दिव्यवधाने किमिति विरमति शब्दसन्तानारम्भ इति (पु. 534)--नैष दोषः --निरावरणस्य हि व्योम्नः शब्दारम्भे समवायिकारणत्वं तथादर्शनात् कल्प्यते, नाकाशमात्रस्येति ॥
[शब्दस्य आश्रितत्वात गुणत्वसाधनपक्षः, तन्निराकरणं च] यदपि गुणत्वमसिद्धं शब्स्ये ति (पु. 5:34)-तत्र केचित् अश्रितत्वात् गुणत्वमाचक्षते-तदयुक्तम्
आश्रितत्वं गुणत्वे हि न प्रोजकमिष्यते। . पण्णामपि पदार्थानां आश्रितत्वस्य संभवात् ॥ ३१८ ॥ दिक्कालपरमाण्वादिनित्यद्रव्यातिरेकिणः । . आश्रिताः षडपीप्यन्ने पदार्थाः कणभोजिना ॥ ३१९ ॥ न च व्योमांश्रितत्वमपि शब्दस्य प्रत्यक्षम ; अप्रत्यक्षे नभसि तदाश्रितत्वस्याप्यप्रत्यक्षत्वात् ।।
[आकाशाप्रत्यक्षस्वेऽपि शब्दप्रत्यक्षत्वमुपपद्यते] कथमाधारपारोक्ष्ये शब्दप्रत्यक्षतेति चेत् ।
यथैवाऽऽत्मपरोक्षत्वे बुद्धयादेरुपलम्भनम् ॥ ३२०॥ एतदेवासिद्धमिति चेत् ; अलं वादान्तरगमनेन। उपरिष्टानिर्णेष्यमाणत्वात् (७ आह्निके.) ॥
विभोरात्मनः देहदेशावच्छेदेनैव हि ज्ञानमुत्पद्यते। सचिवाः-सहकारिणः ।।
पणाम पीति । 'द्रव्याश्रितत्वं चान्यत्र नित्य द्रव्येभ्यः (प्र. भा.) इति हि काणादा.॥
एतदेव-आत्मनोऽप्रत्यक्षत्वेऽपि तद्गुणानां प्रत्यक्षत्वमित्येतदेव ।।