________________
561 शब्दानामनित्यत्व समर्थनम्
न्यायमञ्जग कुड्यादिप्रतिवन्धेन वायोरप्रसरणं भवद्भिरपि कथितमेव । निर्विवरचर्मपुटोपरुद्धोऽप्यसौ न प्रसरेत् ॥
कोष्टयमारतस्य शब्दाभिव्यञ्जकत्वासंभवः] अपि च सर्वतोनिरुद्धसर्वद्वारस्यापि जठरे गुराशब्दो मन्दाग्नेः श्रूयते। अत्र कुनो व्यञ्जकानां कौष्ठ्यपवनानां निस्सृतिः ? रोमकृमनिस्सृतानामपि सूक्ष्मतया स्तिमित बाह्यवाय्वपसरणसाम-. •भावः॥
कौष्ठयमारुतस्य बाह्यवाय्वपसरणे शक्तिरपि न भवति किञ्च मनागपि वहिवायौ वाति न शब्दश्रय गं स्यादिति । दुर्वलोऽपि बाह्यः पवनः प्रवलादत कोष्टयवायोः वलीयान भवतीति कथं तेनापसार्यत?
[प्रसिद्ध ब्राह्मवाय्वपेक्षया विलक्षणा: शब्दावारकवायवो न सन्त्येव
अन्य एव सूक्ष्मा वायवः शब्दावर णकारिणः, न पुनरेते परिदृश्यमानाः श्यामाकलतालास्योपदेशिनः मातरिश्वान इनि
चेत्-न--विशेष प्रमाणाभावात्। यं च सूक्ष्मा अपि वायवः तिरादधति, तं सुतरां वलीयांसोऽपि विवृणुयुरिति यत्किञ्चिदेतत् ॥
सिद्धान्तोक्तशब्दग्रहणप्रकार एव साधीयान् ] तस्मात् सजातीयशब्दसन्तानारम्भपक्ष एव युक्तयनुगुणः । तथाहि --सजातीय गुणारम्भिणः गुणास्तावदृश्यन्त एव रूपादयः। अमूर्ताऽपि च बुद्धिः बुद्धयन्तरमारभमाणा दृश्यते। देशान्तरेऽपि सव कार्यमारभते, पथि गच्छतो देवदत्तादः एकस्मादायप्रदेशात् प्रदेशान्तरे बुद्धयुत्पाददर्शनात् । कार्यारम्भविरतिरपि भवति; अदृष्टाधीनसंसर्गाणां सहकारिणामनवस्थानात् ।।
भवद्भिः कथितमिति । 'आरम्भप्रतिबन्धोऽस्य न च कुड्यादिभिभवेत् ' (श्लो. वा. :-५-६.६६) इत्यादौ तथोक्तं तैः ॥
श्यामाकलतालास्योपदेशनः तासां ईपञ्चलनहेतवः ॥
'शब्दः शब्दान्तरं सूते इति तावदलौकिकम्' इत्यायुक्त (पु. 534) समाधने-तथाहीत्यादि। सैव-पूर्वोत्पन्नैव बुद्धिः। पथि गच्छत इत्यादि।