________________
आह्निकम् ३] शब्दनित्यत्वे पूर्वोक्तं लाघवमप्रयोजकम
563 [शब्दनित्यत्वपक्षे लाघवोपपादनमप्रयोजकमेव] यत्पुनः 'संप्रधारितं' व्यङ्गयकार्यपक्षयोः क्व शब्दग्रहणे गुर्वी कल्पना भवति ? व वा लध्वी? इति (पु. 533)-तदपि मौलप्रमाणविचारसापेक्षत्वात् अप्रयोजकम् ॥
यदि मोलप्रमाणेन साधिता नित्यशब्दता। त्वदुक्ता कल्पना साध्वी मदुक्ता तु विपर्यये ॥ ३११ ॥
[शब्दनित्यत्वपक्षे शब्दस्य सर्वदिक्षु ग्रहणासंभवः] कौष्ठयेन बहिः प्रसरता समीरणेन सर्वतः स्तिमितमारुतापसरणं क्रियते (पु. 537) इत्येतदेव तावदलौकिकं कल्पितम् । . 'अग्नेरूप्रज्वलनं, वायोस्तिर्यग्गमनं, अणुमनसोश्चाद्यं कर्मत्यदृष्टकारि तानि' (वै.सू. ५-२-१४) इति मरुतां तिर्यग्गमनस्वभावत्वात् ऊर्ध्वमधश्च शब्दश्रवणं न भवेत् ॥
यावन्न वेगिनाऽन्येन प्रेरितो मातरिश्चना। तावनैसर्गिको वायुःन तिर्यग्गतिमुज्झति ॥ ३१२ ॥ अधोमुखप्रयुक्तोऽपि शब्द ऊर्ध्व प्रतीयते । उत्तानवदनोक्तोऽपि नाधो न श्रूयते च सः ॥ ३१३ ।। कदम्बगोलकाकारशब्दारम्भो हि संभवेत् । न पुनदृश्यते लोके तादृशी मरुतां गतिः ॥ ३१४ ।। आकण्ठानद्धनीरन्ध्रचर्मावृतमुखोदितः ।
शब्दो यः श्रूयते तत्र न कौष्ठयानिलसर्पणम् ॥ ३१५ ।। ... मौलप्रमाणेति । मूलभूतप्रमाणेत्यर्थः । अप्रयोजकत्वमेवाहयदीति ॥
यावदित्यादि । दृश्यते हि जलेऽपि प्रवाहद्वयसंघटनया ऊर्ध्वगतिः । अकण्ठेत्यादिकं कौष्टयन समीरणेन स्तिमितमारुतापसरणासंभवोपपादनाय ॥
सन्धारितं-ख.
36*