________________
562
[ न्यायमञ्जरी
शब्दानामनित्यत्वसमर्थनम्
अहो तीव्रादयस्तीत्रे प्रपाते पतिता अभी । यो गृह्यते, न तद्धर्मा; यद्धर्मा, स न गृह्यते ॥ ३०५ ॥
[शब्दनित्यत्वे तीव्रेण मन्दस्याभिभवोऽपि (पु. 533 ) दुर्निरूपः ]
यश्चाभिभववृत्तान्तः त्वन्मते मरुतामसौ । अनिले चाभिभूतेऽपि शब्दो न श्रूयते कथम् ? ॥ ३०६ ॥ दीपेऽभिभूते रविणा न हि रूपं न गृह्यते । नियतव्यञ्जकत्वं तु प्रतिक्षिप्तमदर्शनात् ॥ ३०७ ॥
[ध्वनौ वायुगुणे शब्दत्वग्रहणासंभवः ]
यत्तु शङ्खादिशब्दानां श्रोत्रग्राह्यत्वसिद्धये । शब्दत्वं तत्र तद्ब्रू।ह्यं इत्यवादि (पु. 538) तद्व्यसत् ॥ ३०८ ॥ सत्यं वदत दृष्टं वा श्रुतं वा कचिदीदृशम् । आश्रयस्य परोक्षत्वे तत्सामान्योपलम्भनम् ॥ ३०९ ॥ शब्दो न तेऽस्त्यवर्णात्मा न शङ्खो वर्णसम्भवः । न नादवृत्ति शब्दत्वं इति तद्ग्रहणं कथम् ? ।। ३१० ।।
यो गृह्यत इति । शब्दस्तु गृह्यते, परन्तु तीव्रत्वादिर्न तद्धर्मः; तीव्रत्वादिधर्मास्तु बुद्धेः, सा तु न गृह्यते ॥
दीप इति । व्यञ्जकस्य दीपस्य सूर्यप्रभयाऽभिभवेऽपि न हि व्यङ्गयं रूपं न गृह्यत इत्यर्थः । ननु तत्र उभयव्यङ्गयं रूपं एकमेव । अतः एकस्याभिभवेऽपि न रूपाग्रहणप्रसङ्गः । प्रकृते तु तत्तदनिलाभिव्यङ्गययोः शब्दयोरपि तदनुगुणं भिन्नत्वात् तत्राप्यभिभवो युज्यत एवेत्याशंक्य तर्हि उभयोरसमाने मेलने किं कस्याभिव्यञ्चकं इत्यादिनियमः दुर्निरूप इति पूर्वमेवोक्तमित्याह नियतव्यञ्जकत्वमित्यादि ॥
आश्रयस्य - शब्दस्य । नाद एव हि तेषां श्रोत्रग्राह्यः, न तु शब्दः । अथापि शब्दत्वं नादे श्रोत्रेण गृह्यत इति ते वदन्ति । एतदेवोध्यतेऽनन्तरश्लोकेन ॥
ननु तर्हि सिद्धान्ते आकाशस्याप्रत्यक्षत्वेऽपि तदाश्रितस्य शब्दस्य प्रत्यक्षत्वं कथमिति चेत्; आकृतिव्यङ्गयत्वाजातेः तत्रैवायं नियमः, नान्यत्र ; तथाऽनुभवात् ॥