________________
आह्निकम् ३] तीव्रत्वादीनां श६धमल्वम्
561 [शब्दनित्यत्वे तीव्रमन्दादिविभागः दुर्निर्वहः] कथं चाभिव्यक्तिपक्षे तीव्रम विभागः ? (पु. 532)। तीव्रतादयो हि वर्णधर्मा वा स्युः? ध्वनिधर्मावा? वर्णधर्मत्वे 'तीव्रात् । गकारात् अन्यत्वं मन्दस्येत्यस्मन्मत नुप्रवेशः ॥
ध्व नधर्मत्वपक्षे तु श्रोत्रेण ग्रहणं कशम् ? न हि वायुगतो वेगः श्रवणेनोपलभ्यते ॥ ३०२ ।।
[तीव्रत्वमन्दत्वादेः ध्वनिधर्मत्वासंभवः] . यत्तु व्यक्तिधर्माः कृश वस्थूलत्वादयः जातात्रुपलभ्यन्ते इति दर्शितम् (पु. 32)-तत् काममुपपद्येनापि। जातेः, व्यक्तः, तद्धर्माणां च समानेन्द्रियग्राह्यत्वात् ॥
इह तु स्पर्शनग्राह्यः पवनोऽतीन्द्रियोऽथ वा । तद्धर्माः श्रवणे शब्दे गृह्यन्त इति विस्मयः ॥ ३०३ ।।
[तीवत्वमन्दत्वादेः बुद्धिधर्मस्वाभावः] यत्त बुद्धिरेव तीव्रमन्दवतीति (पु. 533)-तदतीय सुभाषितम् । असति विषयभेदे बुद्धिभेदानुपपत्तेः ।।
किञ्च नित्यपरीक्षा ते बुद्धिरेवं च नादवत् । तदग्रहे न तीव्रादितद्धर्मग्रहसंभवः ॥ ३०४ ॥
कामं अदृष्टायत्तोपाध्यादिवशादिति युक्तम् । अदृष्टादेव साक्षात् व्यवस्था तु दुरुपपादैवेति ॥ . वायुगत इति। 'द्विविधो हि शब्दः वर्णों ध्वनिश्च । द्वयोरनुगतं शब्दत्वम् । वर्णत्वं ध्वनित्वं च तदवान्तरसामान्ये । वर्णविशेषाः गकारादयः, ध्वनिविशेषा: शङ्खघोषादयः । ध्वन्यात्मकश्च शब्दः वायुगुणः' इति न्यायरत्नाकरे (1-3-, स्फोट. ३९) वर्णितं द्रष्टव्यम् ॥
नित्यपरोक्षति । प्राकटयेनानुमेयं हि ज्ञानं तेषां मते ।
1 तीव्र-ख.
तदग्रहात्-ख.
NYAYAMANJARI