________________
560 शब्दानामनित्यत्वसमर्थनम्
[न्यायमधरी -तदप्यसांप्रतम्
दिशां कार्यान्तराक्षेपात् आगमान्यपरत्वतः ।
आहोपुरुषिकामाचं दिग्द्रव्यश्रोत्रकल्पनम् ॥ ३०१॥ इन्द्रियाणां भौतिकत्वस्य साधयिष्यमाणत्वात् । दिशश्च अमूर्तत्वात् नेन्द्रियप्रकृतित्वम् । व्यापकत्वाविशेषे वा कालात्मनोरपि तथाभावप्रसङ्गः। तयोरन्यत्र व्यापारकत्वात् नेन्द्रियप्रकृतित्वमिति चेत्, दिग्द्रव्येऽपि तुल्यमेतत् । आगमस्त्वन्यपर एव । यथा हि 'सूर्य चक्षुर्गमयतात्। ...दिशःश्रोत्रम्' (ते. प्रा. ३-६-६) इति पठ्यते, एवं 'अन्तरिक्षमसुम्' (ते. ब्रा. ३-६-६) इति च पठ्यत एव । न चासवोऽन्तरिक्षप्रकृतिकाः, पवनात्मकत्वात् । तस्मात् कृतं दिशा। आकाशदेश एव कर्णशष्कुल्यवच्छिन्नः शब्द निमित्तोपभोगप्रापकधर्माधर्मोपनिबद्धः श्रोत्रमित्युक्तम् ॥
[नित्यशब्दाभिव्यक्तिव्यवस्था न धर्माधर्मार्थीना युक्ता] ननु ! धर्माधर्मकृतश्रोत्रनियमवत् अभिव्यक्तिनियमोऽपि शब्दस्य तत्कृत एव भविष्यति। किमिति तदनियमो नित्यत्वपक्षे चोद्यत इति? . नैतद्युक्तम्-चक्षुरादीन्द्रियाणां वैकल्यं अदृष्टनिबन्धनं अन्धकारप्रभृतिषु दृश्यते, न पुनः पदार्थस्थितिरदृष्टवशात् विपरिवर्तते। व्यञ्जकधर्मातिकमे हि हिममपि शैत्यं स्वधर्ममतिकामेत् । व्यञ्जकेषु नियमो न दृष्ट इत्युक्तम् । दृष्टे च वर्णभेदे नियतोपलब्धि हेतौ संभवति सति किमयमदृष्टमस्तके भार आरोप्यते ?
आहोपुरुषिका-'आहोपुरुषिका तावत् गर्वादात्मनि गौरवम्' इति वैजयन्ती। ननु दिगाकाशयोरुभयोः व्यापकत्वाद्यविशेषात् श्रोत्रं दिक्प्रकृतिकमेव भवतु इत्यत्राह-व्यापकत्वेत्यादि। अन्यत्र-अन्यस्मिन् कार्ये। तुल्यम् , दिशोऽपि दैशिकपरत्वापरत्वनिर्वाहकतयैव सिद्धेः। तत्तत्प्रकृतिकत्वाभावेऽपि अभिप्रायान्तरादिभिस्तथा व्यपदेशो बहुलं दृश्यत इत्याह-यथा हीति। असवः-प्राणाः ।।
श्रोत्रनियमवदिति। विभु आकाशं हि श्रोत्रं सिद्धान्ते। नैतर्युक्तमित्यादि । न हि ब्यापकं भाकाशं वयं श्रोत्रं ब्रूमः, किन्तु कर्णशष्कुल्युपहितमेव । न हि तव शब्दे तथा, पदार्थस्थिते: भदृष्टाधीनत्वाभावात्। तद्ग्रहणादिकं