________________
559
आह्निकम् ३] शब्दनित्यत्वे ग्रहणनियमः दुर्वच एव
नादैः संस्क्रियतां शब्दः श्रोत्रं वा द्वयमेव वा। सर्वथा नियमो नास्ति व्यञ्जकेष्विति निश्चयः ॥ २९९ ॥ - व्यवस्था व्यञ्जकानां चेत् उच्यतेऽदृष्टकारिता।। उत्पत्तौ दृश्यमानायां दृष्टमप्यविरोधकम् ॥ ३०० ॥
[श्रोत्रसंस्कारपक्षः न युक्तः] न च स्तिमितमारुतापनयनव्यतिरिक्तः कश्चन श्रोत्रसंस्कारो विद्यते। तत्र चातिप्रसङ्ग उक्तः। एतदतिरिक्त संस्कारकल्पनायां तु अदृष्टकल्पना। स्थिरे च शब्दसंस्कार ग्राहिणि सति पुनरभिव्यक्तस्यापि गोशब्दस्य श्रवणं स्यात् । तद्ग्रहणहेतोः संस्कारस्य स्थिरत्वात्। तत्क्षणिकत्वे तु शब्दक्षणिकतैव साध्वी, प्रतीयमानत्वात् ॥
. [श्रोत्रेन्द्रियस्य संस्काररूपत्वासंभवः] यत्तु भर्तृमित्रः तमेव संस्कार श्रोत्रेन्द्रियमभ्युपैति, (पु. 531) तदिदमपूविकं किमपि पाण्डित्यम्। इन्द्रियस्य हि 'संस्कार्यस्य संस्कारः, न संस्कार एवेन्द्रियम्; लोकागमविरुद्धत्वात् । प्रतिपुरुषं यावच्छब्दं भिन्नस्य क्षणिकस्य चेन्द्रियस्य कल्पनमनुपपन्नम्। अनश्वरत्वे तु शश्वदेव शब्दकोलाहलप्रसङ्ग इति यत्किञ्चिदेतत् । भट्टेनैव सोपहासमेष दूषितः पक्ष इति किमत्र विमर्दैन!
.[भट्टोक्ता भर्तृमित्रनिराकरणप्रक्रिया न साधीयसी] . यदपि भट्ट आह (श्लो. वा. 1-१-६-१४९)
"यदि ववश्यं वक्तव्यः तार्किकोक्तिविपर्ययः। - ततो वेदानुसारेण कार्या दिश्रोत्रतामतिः ॥” इति ;
दृश्यमानायामिति प्रकृतहेतुसंपादकम् ॥
सिद्धान्ते आकाशस्यैव श्रोत्रत्वात् तदमिप्रायेण-न पुरुषभेदमात्रात् इन्द्रियभेदः स्यात, किन्तु क्षणभेदादपीत्यभिप्रायेण वा-प्रतिपुरुषमिति । 'केचित्तु पण्डितमन्या: ' इत्येतत्स्मरनाह--सोपहासमिति ॥
नैय्यायिकं निराकुर्वन्तं भर्तमित्र प्रत्युक्ति:-यदि त्ववश्यमित्यादि । वेदः-'दिशः श्रोत्रम् ' (ते. प्रा. ३-६-६) इत्यादिः॥
एवातिरिक्त-ख. ग्रहणमिति-ख. स्थितत्वात्-क. 'संस्कार्यस्य-क.
त्ववश्य-क.