________________
558
शब्दानामनित्यत्वसमर्थनम् न्यायमञ्जरी [शब्दनित्यत्वे नियतग्रहणसमर्थनं न युक्तिमत् यत्पुनः अभिव्यक्तिपक्षे-शब्दस्य ग्रहणे नियमाभावमाशङ्कय, श्रोत्रसंस्कारेण, विषयसंस्कारेण, उभयसंस्कारेण वा नियतं ग्रहणमुपवर्णितम् (पृ. 530-533)-तद्वञ्चनामात्रम् समानदेशानां समानेन्द्रियग्राह्याणां प्रतिनियतव्यञ्जकव्यङ्गथत्वादर्शनात् ॥
[शब्दनित्यत्वे ग्रहणनियमासंभवः] ये पुनरत्र गन्धा उदाहृताः (पु. 530)-ते समानेन्द्रियग्राह्या भवन्ति, न समानदेशाः॥
एकभूम्याश्रितत्वेन तुल्यदेशत्वकल्पने। भवेत् समानदेशत्वं हिमवद्विन्ध्ययोरपि ॥ २९५॥ . एकत्वेऽपि भुवो भान्ति पदार्थाः पार्थिवाः पृथक् । व्यज्यन्ते तदधिष्ठानाः गन्धास्तैस्तैर्निबन्धनैः ॥ २९६ ॥ भवन्त्वनाश्रिताः शब्दाः, यदि वाऽऽकाशसंश्रिताः। सर्वथा भिन्नदेशत्वं एषां वक्तुं न शक्यते ॥ २९७ ।।
[औपाधिकाकाशभेदादपि ग्रहणनियमासंभवः] ननु यथैकत्वेऽपि नभसः तद्भागकल्पनया प्रतिपुरुषं श्रोत्रेन्द्रियमेदः, एवं तद्भागकल्पनयैव शब्दानामपि असमानदेशत्वात् नियतव्यअकव्यङ्गयता भविष्यति नैवमुपपद्यते-यत्रैव वक्तमुखाकाशदेशे, श्रोतृश्रोत्राकाशदेशे वा गोशब्द उपलब्धः तत्रैवाश्वशब्द इदानीमुपलभ्यते; न पुनरतिमुक्तकुसुमे य उपलब्धो गन्धः, स बन्धूके, मधूके वा कदाचिदुपलभ्यत इति ॥
तस्मात् समानदेशत्वात् न व्यक्ती नियमो भवेत् ।
उत्पत्तौ तु व्यवस्थायां तद्भेद उपपद्यते ॥ २९८ ॥ न समानदेशाः। न हि गकारादिः यथा नित्या, एकश्च ; तथा गन्धोऽपि। यदि वा-यदि च ॥
तत्रैवेति। न हि शब्दोत्पत्तः, श्रवणस्य वा देशस्य भेदः अत्रास्ति। 'अतिमुक्तः पुण्डूकः स्यात् वासन्ती माधवी लता'। एवं बन्धूकादयोऽपि पुष्पभेदाः । 'उत्पत्ती तु' इति तुकारेण तन्मते तदसंभव: बोत्यते ।