________________
567
आदिकम् ३] शब्दैक्यप्रत्यभिचाया अन्यथासिद्धत्वम्
प्रत्यभिज्ञा च सापेक्षा निरपेक्षा त्वभावधीः।
तेनैवमादौ विषये प्रत्यभिव बाध्यते ॥ २९३ ॥ 'शब्दाभावस्य 'शगिति ग्रहणात्' । तत्प्रत्यभिज्ञायाश्च पूर्वानुसन्धानादिसव्यपेक्षत्वात् ॥
[प्रत्यभिज्ञाया अन्यथासिद्धिरेवौत्सर्गिकी] अपि च प्रत्यभिज्ञा व्यभिचरन्ती' कर्मादिषु गृह्यते । तेनास्यां शब्देऽप्यभावप्रत्ययोपहतवपुषि कः समाश्वासः? न चेदं प्रत्यक्षेऽपि अनेकान्तिकत्वोद्भावनम् ; अपि तु 'विनाशक प्रत्ययप्रतिहतप्रभावा प्रत्यभिशा नित्यत्वं, कर्मादिग्विव, शब्देऽपि न साधयितुं प्रभवतीति 'दृष्टान्त एष प्रदर्श्यते ॥ . . [प्रत्यक्षस्थलेऽपि दृष्टान्तापेक्षा]
ननु प्रत्यक्षेऽपि दृष्टान्तस्य कोऽवसरः? सत्यम्-'ग्राहकास्तु भवादृशाः स्वयमनवबुध्यमाना एवं बुध्यन्ते ॥
[इद्धिकर्मणोः सर्वथा नित्यत्वासंभवः] यत्तु प्रवृद्धरभसतया बुद्धिकर्मादावपि नित्यत्वसमर्थनम्तत् अत्यन्तमलौकिकमित्युक्तम् ॥
किं नाम शब्दनित्यत्वसमर्थनतृषाऽऽतुरः।. ... ... जङ्गमं स्थावरं चैव सकलं पातुमिच्छसि ॥ २९४ ॥
तस्मादलमतिरभसप्रवृत्ताभिः बुद्धिकर्मादिनित्यत्वसमर्थनकथाभिः ॥ विनिगमकान्तरमप्याह-प्रत्यभिज्ञा चेति ॥
नन्वेवं तर्हि प्रत्यक्षं सर्वमपि एवमेवेति किं तव सम्मतम् ? इति चेन्नेत्याह-न चेदमिति ॥
एवं दृष्टान्तमुखेन ॥
1 ग्रहणात-ख. प्रत्यभि-स्ख... ३ व्यभिचरति-ख... ' विनाश-ख. दान्तस्य-ख.. 'ग्राहिकास्तु-ख. ........ .........