________________
556
शम्दानामनित्यत्वसमर्थनम् [न्यायमचरी शायाः, तद्विशेषणस्य च अर्थस्य बाह्येन्द्रियग्राह्यत्वानुपपत्तेः स्तम्भादावपि मानसी प्रत्यभिशेति ॥
निर्बन्धस्त्विह नास्माकं, सा यथाऽस्तु तथाऽस्तु वा। शब्दे विनाशज्ञानात्तु न सा नित्यत्वसाधिका ॥ २८८ ॥
[ऐक्यप्रत्यभिज्ञापेक्षया विनाशप्रत्यक्षं प्रबलम् ] बाध्यबाधकभावे तु नियमो ननु किंकृतः ? शब्दस्य प्रत्यभिज्ञानविनाशप्रतिभासयोः ॥ २८९ ।। उच्यते, प्रत्यभिज्ञानमन्यथाऽप्युपपद्यते । गत्वादिजातिविषयं, यद्वा सादृश्यहेतुकम् ॥ २९० ॥ [शब्दविनाशप्रत्यक्षस्य अन्यथासिद्धत्वासंभवः] 'नन्वभि'व्यञ्जकध्वंसात् नाशधीरपि सेत्स्यति । तदसावपि बाध्याऽस्तु, यद्वा भवतु संशयः ॥ २९१ ॥ मैवं : 'विनाशिता बुद्धिः भेदबुध्युपहिता । . सा चेयं चान्यथासिद्ध इति वक्तुमसांप्रतम् ॥ २९२ ॥
वस्तु साक्षान्न वाच्यः ; गतस्य तस्य तदाऽभानात्। किन्तु पूर्वोत्पन्नतादृशज्ञानविषयत्वेनैव। एवञ्च प्रथमपक्षे पूर्वकालसम्बन्धो विशेषणं, द्वितीयपक्षे च तद्विषयकज्ञानं इति विशेषः। अधिकं परस्तात् । पक्षद्वयं चेदं सप्तमाह्निके विस्तरश: विचारयिष्यते इत्यभिप्रायेणाह-निर्बन्ध इत्यादि।
ननु विनाशप्रत्यय एवान्यथासिद्धः कुतो न स्यादित्यत्राह-बाध्यबाधकभाव इति ॥
नन्वित्यादि। दृश्यते हि वाय्वभिव्यक्षिकायाः व्यजनक्रियाया नाशे वायुनाशप्रतीतिः। न केवलं विनाशप्रत्ययमात्रात् शब्दस्य नानात्वं ब्रमः। किन्तु प्रतीतिकाले शब्दः पूर्वश्रुतगकाराद्भिन्नतयैव भासत इति नानात्वस्यानपह्नवत्वे, तन्मूलतया विनाशोऽपि अनपह्नव एवेत्याह-मैवमिति। ननु नानात्वमप्यौपाधिकं कुतो न स्यादिति तु, अनवस्थाऽन्योन्याश्रयादिग्रस्तं तदित्याह-सा चेत्यादि ।
न त्वमि-ख.
विनाशता-क.