________________
आडिकम् ३] शक्यप्रत्यभिज्ञाया: साजाल्यालम्बनत्वम् 555 इतीयत् कुतोऽस्य दीर्घमायुः ? प्रत्यभिशाप्रामाण्यादेव तावदायुस्तस्य कल्प्यत इति चेत् ; सत्यं कल्प्येत, यदि विनाशप्रत्ययः तदैव न स्यात् ॥ ___ अपि च 'गोशब्दोऽयम्' 'अश्वशब्दोऽयम्' इति तदभिधानविशेषोल्लेखात्
नानानुस्मरणं तस्य तदैवावश्यमापतेत् । विज्ञानायोगपद्याश्च कालो दीर्घतरो भवेत् ॥२८५ ।।
[ग्रहणात् पूर्व शब्दस्थित्यसंभवः] यदप्युदितमुद्दाममेघश्यामासु रात्रिषु। साम्यं सौदामिनीधामजन्यया प्रत्यभिशया ॥ २८६॥ • तदसत् , कालदैर्येण तदव स्थित्य'संभवात् । विद्युद्दष्टे च वृक्षादी नाशसंवित्त्यसंभवात् ॥ २८७ ॥
प्रत्यभिज्ञाया: ऐन्द्रियकत्वपक्षः] प्रत्यभिज्ञा नाम स्मर्यमाणानुभूयमानसामानाधिकरण्यग्राहिणी संस्कारसचिवेन्द्रियजन्या प्रतीतिरिति केचित् ॥
प्रत्यभिज्ञायाः केवलमानसत्वपक्षः] ___अन्ये मन्यन्ते-स्मर्यमाणपूर्वज्ञानविशेषितार्थवाहित्वात् प्रत्यभि- शब्दप्रत्यमिज्ञाने न केवलमक्षरमात्रानुसन्धानापेक्षा, अपि तु अर्थस्यापीति, सर्वथा तावत्कालं शब्दासत्त्वात् प्रत्यमिज्ञा नैक्यावगाहिनीत्याह-अपि चेति। नानेति । वाच्यसम्बन्धादीत्यर्थः । विज्ञानायौगपद्यात् इति प्रायोवादामिप्रायम् । स्मृतेः संभवात् ॥
'यथा निशीथे' (पु. 527) इत्यादि समाधत्ते--यदपीति। कालदैर्येण - चिरकालपर्यन्तमिति यावत्। तदवस्थिति:--शब्दस्थितिः॥
स्मर्यमाण-पूर्वकालदेशसम्बन्धादि। अनुभूयमानं-एतत्कालदेशसम्बन्धादि ॥
स्मर्यमाणेत्यादि। ‘सोऽयं' इत्यत्र हि तच्छन्देन पूर्वकालविशिष्टं
'स्थिति-ख.